________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[ एक्कसि सील - कलंकिअहं....
]
=
अस्यार्थः- एकशः- एकवारं शीलं कलङ्कितं येषां ते = शीलकलङ्किता:, तेषां प्रायश्चित्तानि दीयते । यः पुनः अनुदिवसं खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ।
शीलकलङ्कितानामालोचनरूपाणि
[ एक्कसि ] एकश: । 'तैलादौ' (२।९८) द्वित्वं क्क० । 'श-षोः सः' (१।२६०) श० स० । अनेन डिप्र० इ० । ‘डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१|१|३) एक्कसि ||४२८||
अ- डड-डुल्ला: स्वार्थिक-कलुक् च ॥ ८।४।४२९ ॥
अपभ्रंशे नाम्नः परतः स्वार्थे अ- डड - डुल्ल इत्येते त्रयः प्रत्यया भवन्ति, तत्संनियोगे स्वार्थिकस्य कप्रत्ययस्य लोपश्च ॥
॥ अ ॥ विरहाणल - जाल - करालिअउ पहिउ पंथि जं दिउ ।
तं मेलवि सव्वहिं पंथिअहिं सो-जि किअउ अग्गिउ || १॥
॥ डड ॥ महु कंतो बे दोसडा ||२|| [४ ३७९-१] ।
॥ डुल्ल || एक कुडुल्ली पंचहिं रुद्धी ||३|| [ ४।४२२-१४] ।
६०७
[ अ डड-डुल्ला: ] अ-डड डुल्ल प्रथमा जस् ।
[ स्वार्थिककलुक् च ] स्वार्थिककलुक् प्रथमा सि । च प्रथमा सि ।
[विरहाणल-जाल - करालिअउ .....
]
अस्यार्थः- पथि मार्गे पथिको विरहानलज्वालाकरालितः पीडितो यस्माद् दृष्टः, तं तस्मात् सर्वैरपि पथिकैर्मिलित्वा स एव पथिकोऽग्निष्ठः कृतः । लोके तु अंग्गीठउ इति प्रतीतिरित्यर्थः ।
[ अग्गिड ] अग्निष्ठ । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ ० ' (२२८९) गस्य द्वित्वम् । 'ष्टस्याऽनुष्ट्रे० ' (२।३४) टस्य ठः । 'अनादौ०' (२२८९) ठस्य द्वित्वम् । 'द्वितीय - तु०' (२९०) पूर्वठस्य ट: । 'स्था-पा-स्ना - त्रः कः' (५/१/१४२) प्र० । अनेन अप्रत्ययः कस्य च लुक् । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) अ० उ० । 'अन्त्यव्य० ' (१।११) स्लुक् अग्गिट्ठउ |
[ महु कंतहो बे दोसडा ] पूर्वं लिखितम् । [४।३७९-१] ।
[ दोसडा ] दोष । अनेन डडप्र० अड इति । 'डित्यन्त्य० ' (२|१|११४) अन्त्यस्वरादिलोपः । 'लोकात् ' (१|१|३) दोषड० । 'श-षोः सः ' (१।२६०) ष० स० । 'द्विवचनस्य बहुवचनम्' (३|१३०) बहुवचनम् । प्रथमा जस् । 'जस् - शस् - ङसि ०' (३।१२) दीर्घः ड० डा० । 'जस् - शसोर्लुक्' (३।४) जस्लुक् दोसडा ।
[ एक्क कुडुल्ली पंचहिं रुद्धी ] पूर्वं लिखितम् । [४।४२२-१४] ।
[ कुडुल्ली ] कुटी । अनेन डुल्लप्र० उल्ल० । 'डित्यन्त्य० ' (२|१|११४) ईलुक् । 'लोकात् ' (१।११३) कुटुल्ल० । 'टो डः' (१|१९५) कुडुल्ल० । 'स्त्रियां तदन्ताड्डी:' ( ४।४३१) डीप्र० ई० । 'लुक्' (१।१०) अलुक् । 'लोकात् ' (१|१|३) ल्ली० कुडुल्ली ॥४२९ ॥
योगजाश्चैषाम् ॥ ८।४।४३० ॥
अपभ्रंशे अ- डड-डुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेऽपि स्वार्थे प्रायो भवन्ति ॥