________________
५९८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[हरि नच्चाविउ पंगणइ.......] अस्यार्थः- प्राङ्गणे हरिर्तितः । लोको विस्मये पातितः । इदानीं राधा-पयोधरयोर्यत् प्रतिभाति तद्भवतु इत्यर्थः । [ एवहिं ] इदानीम् । अनेन "इदानीम्" स्थाने एवंहिं । [साव-सलोणी गोरडी..........]
अस्यार्थः- गौरी सर्व-सलावण्या का-अपि नवीना विषग्रन्थिर्यस्य कण्ठे न लगति स भटः - कामुकः प्रत्युत - सम्मुखं म्रियते इत्यर्थः ।
[पच्चलिउ] प्रत्युत । अनेन प्रत्युतस्य पच्चलिउ० । [एत्तहे मेह पिअंति जलु] पूर्वं लिखितम् । [४।४१९-६] । [एत्तहे] इतस् । अनेन "इतस्" स्थाने एत्तहे० ॥४२०।।
विषण्णोक्त-वर्त्मनो वुन्न-वुत्त-विच्चं ॥८।४।४२१ ॥ अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति । ॥ विषण्णस्य वुन्नः ॥ मई वुत्तउं तुहं धुरु धरहि कसरेहिं विगुत्ताई ।
पई विणु धवल ! न चडइ भरु एवइ वुन्नउ काई ॥१॥ ॥ उक्तस्य वुत्तः ॥ मई वुत्तउं ॥२॥ ॥ वर्त्मनो विच्चः ॥ जं मणु विच्चि न माइ ॥३॥ [४।३५०-१] । [विषण्णोक्त-वर्त्मनः] विषण्ण-उक्त-वर्मन् षष्ठी ङस् । [वुन्न-वुत्त-विच्चं] वुन्न-वुत्त-विच्च प्रथमा सि । [मई वुत्तउं तुहुँ धुरु............]
अस्यार्थः- हे वृषभ ! मया उक्तम् । त्वं धुरं धर । कसारैर्गलिवृषभैर्वयं विगोपिताः । हे धवल ! हे वृषभ ! त्वया विना भारो न चटति । एवमेव विषण्णः कथमित्यर्थः ।
[वन्नउ] विषण्ण । अनेन विषण्णस्य वन्न० । प्रथमा सि ।
[मई वुत्तउं.............] पूर्वं कथितम् । [वुत्तउं] उक्त । अनेन उक्तस्य वुत्त० । [जं मणु विच्चि न माइ] पूर्वं लिखितम् । [४।३५०-१] । [विच्चि] वर्त्मन् । सप्तमी ङि । अनेन वर्त्मनो विच्च० । 'ङिनेच्च' (४।३३४) च्च० → च्चि० विच्चि० ॥४२१।।
शीघ्राऽऽदीनां वहिल्लाऽऽदयः ॥ ८।४।४२२ ॥
अपभ्रंशे शीघ्राऽऽदीनां वहिल्लाऽऽदय आदेशा भवन्ति ।