________________
५९६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
॥ अथवोऽहवइ ॥ अहवइ न सु-वंसहं एह खोडि ॥२॥ जाइज्जइ तहिं देसडइ लब्भइ पिअहो पर्माणु । जइ आवइ तो आणियइ अहवा तं जि निवाणु ॥३॥ ॥ दिवो दिवे ।। दिवे दिवे गंगा-हाणु ॥४॥ [४।३९९] ॥ सहस्य सहं ॥ जंउ पवसंतें न सहुं गय न मुअ विओएं तस्सु ।
लज्जिज्जइ संदेसडा दितिहिं सुहय-जणस्सु ॥५॥ ॥ नहेर्नाहिं ॥ एत्तहे मेह पिअंति जलु एत्तहे वडवानलु आवट्टइ ।
पेक्खु गहीरिम सायरहो एक्क-वि कणिअ नाहिं ओहट्टइ ॥६॥ [किला-ऽथवा-दिवा-सह-नहेः] किल-अथवा-दिवा-सह-नहि षष्ठी ङस् । [किरा-ऽहवइ-दिवे-सहुं-नाहिं] किर-अहवइ-दिवे-सहुं-नाहिं प्रथमा जस् ।
[किर न खाइन पिअइ..............]
अस्यार्थ:- किल न खादति । न पिबति । न विद्रवति-ददाति । धर्मे रूपकं न व्ययति । इह कृपणो न जानाति यथा यमस्य दूतः क्षणेन प्रभवतीत्यर्थः ।।
[किर ] किल । अनेन किलस्य किर० । [अहवइ न सु-वंसहं एह खोडि ] एकपदम् । अस्यार्थ:- अथवा न सुवंशस्य(शानां) एष दोष इत्यर्थः । [अहवइ] अथवा । अनेन "अथवा"स्थाने अहवइ० । [जाइज्जइ तहिं देसड..............]
अस्यार्थः- तत्र देशे गम्यते यत्र प्रियस्य प्रमाणं लभ्यते । यद्यागच्छति तत आनीयते, अथवा तदेव निर्वाणं- स एवाऽन्त इत्यर्थः ।
[अहवा] अथवा । प्रायोऽधिकारात् "अथवा" स्थाने अथ(ह)वैव । 'ख-घ-थ-ध-भाम्' (१२१८७) थस्य हः । [दिवे दिवे गंगा-हाणु] पूर्वं लिखितम् । [४/३९९-१] । [दिवे] दिवा । अनेन "दिवा" स्थाने दिवे० । [जउ पवसंतें न सहुं गय.. ...]
अस्यार्थः- स्त्री कथयति । यत् प्रवसता-प्रवासं कुर्वता सता सह न गता । अथ तस्य वियोगेन न मृता । तर्हि तस्य सुभगजनस्य संदेशान् ददतीभिरस्माभिर्लज्यते इत्यर्थः ।
[सहुं] सह । अनेन सहस्य सहुं० ।
१. N. पवाणु । २. H. I. M. दिवि दिवि । ३. जसुं पवसंत न पवसिया मुइअ वियोइ न जासु । लज्जिज्जउ संदेसडउ दिती पहिय पियासु ॥ [सं० रा० - ७०] ।