________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५९५
[एम्व] एवम् । अनेन "एवं"स्थाने एम्व० । [गुणहिं न संपय कित्ति पर........] पूर्वं लिखितम् । [४।३३५-१] । [पर ] परम् । अनेन "परं" स्थाने पर० । किंतु जु सीहहो उवमिअइ.........]
कान्तो यत् सिंहेन सहोपमीयते तन्मम मानः खण्डितः । सिंहो नीरक्षकान्-रक्षपालरहितान् गजान् हन्ति । प्रियः पदरक्षैः समं गजान् हन्तीत्यर्थः ।
[समाणु] समम् । अनेन “समं"स्थाने समाणु० । [चंचलु जीविउ ध्रुवु मरणु...........]
अस्यार्थः- जीवितं चञ्चलम् । मरणं ध्रुवम् । हे प्रिय ! रूष्यते कथम् ? । रोषणस्य दिवसा दिव्यानि वर्षशतानि भविष्यन्तीत्यर्थः ।
[ ध्रुवु] ध्रुवम् । अनेन "ध्रुवं" स्थाने ध्रुवुः । [मं धणि ! करहि विसाउ] एकपदम् । अर्थः- हे नायके ! विषादं मा कुरु । [४॥३८५-१] । [मं] मा । अनेन मा० → मं० । प्रायोग्रहणात् - [माणि पणइ जइ न तणु........]
अस्यार्थः- माने प्रनष्टे यदि तनुर्न त्य॑ज्यते ततो देशस्त्यज्यते, परं दुर्जनकरपल्लवैर्दय॑मानो मा 'भ्राम्येत् । न भ्रमतीत्यर्थः ।
[मा] मा । प्रायोग्रहणात् मा एवं स्थितम् । [लोणु विलिज्जइ पाणिएण..............]
अस्यार्थः- हे मेघ ! मा गर्ज । लवणं लावण्यं पानीयेन विलीयते । ज्वालितो मेघो गलति । अद्य स-कुटीरिका गौरी तिम्यति । भींजइ इत्यर्थः ।
[म] प्रायोग्रहणात् "मा"स्थाने मा० । 'स्वराणां स्वराः०' (४।३२९) मा० → म० । [विहवि पणइ वंकुडउ...............]
अस्यार्थः- विभवे प्रनष्टे वक्र: । ऋद्धौ जनसामान्यो भवति- सर्वजनतुल्यो भवति । शशी किमपि मम प्रियस्याऽनुहरति-सदृशो भवति मनाक् । अनेन "मनाक" स्थाने मणाउं० ॥४१८॥
किला-ऽथवा-दिवा-सह-नहेः किरा-ऽहवइ-दिवे-सहुं-नाहिं ॥ ८।४।४१९ ॥ अपभ्रंशे किलाऽऽदीनां किराऽऽदय आदेशा भवन्ति ॥ ॥ किलस्य किरः ॥ किर न खाइ न पिअइ न विद्दवइ धम्मि न वेच्चइ रूअडउ ।
इह किवणु न जाणइ जइ जमहो खणेण पहुच्चइ दूअडउ ॥१॥
१. I. N. त्यजेत् । J. M. त्यजेः । २. . भ्राम्य । I. N. P. भ्रमेत् । J. M. भ्रमेः ।