________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[अतां डइसः] अत् षष्ठी आम् । डइस प्रथमा सि ।
[जइसो] यादृश । अनेन "दृश"स्थाने डइस० → अइस० । 'डित्यन्त्य०' (२।१११४) आलुक् । 'लोकात्' (१।१।३) यइस० । 'आदेर्यो जः' (१२२४५) यइस० → जइस० । 'सौ पुंस्योद्वा' (४।३३२) स० → सो० जइसो ।
[तइसो] तादृश । अनेन "दृश"स्थाने डइस० → अइस० । 'डित्यन्त्य०' (२२१२११४) आलुक् । 'लोकात्' (१।१।३) तइस० । प्रथमा सि । 'सौ पुंस्योद्वा' (४।३३२) स० → सो० तइसो।
[कइसो] कीदृश । अनेन "दृश" स्थाने डइस० → अइस० । 'डित्यन्त्य०' (२।१।११४) ईलुक् । 'लोकात्' (१।१।३) कइस० । प्रथमा सि । 'सौ पुंस्योद्वा' (४।३३२) स० → सो० कइसो ।
[अइसो] ईदृश । अनेन "दृश"स्थाने डइस० → अइस० । 'डित्यन्त्य०' (२।१।११४) ईलुक् । 'लोकात्' (१।१।३) अइस० । प्रथमा सि । 'सौ पुंस्योद्वा' (४।३३२) स० → सो० अइसो ॥४०३।।
यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तु ॥ ८।४।४०४ ॥ अपभ्रंशे यत्र-तत्रशब्दयोस्त्रस्य एत्थु-अत्तु इत्येतौ डितौ भवतः ।। जइ सो घडदि प्रयावदी केत्थु-वि लेप्पिणु सिक्खु । जेत्थु-वि तेत्थु-वि एत्थु जगि भण तो तहि सारिक्खु ? ॥१॥ जत्तु ठिदो । तत्तु ठिदो ॥२॥ [यत्रतत्रयोस्त्रस्य] यत्र-तत्र षष्ठी ओस् । त्र षष्ठी ङस् । [डिदेत्य्वत्तु ] डित् प्रथमा सि । एत्थु-अत्तु प्रथमा सि । [जइ सो घडदि प्रयावदी..
अस्यार्थः- यदि स प्रजापतिः कुत्रापि शिक्षां लात्वा यत्रापि तत्रापि अत्र जगति घटयति तर्हि भण-कथय । तस्याः सदृक्षी-सादृश्यं को घटयतीत्यर्थः ।
[जेत्थु] यत्र । अनेन त्रस्य डेत्थु० → एत्थु० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१९१३) येत्थु० । 'आदेर्यो जः' (१।२४५) जेत्थुः ।।
[ तेत्थु ] तत्र । अनेन त्रस्य उत्थु० → एत्थु० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तेत्थुः ।
[जत्तु ठिदो ] यत्र । अनेन त्रस्य डत्तु० → अत्तु० इति । 'डित्यन्त्यः' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) यत्तु० । 'आदेर्यो जः' (१।२४५) यत्तु० → जत्तु० ।
[तत्तु ठिदो ] तत्र । अनेन त्रस्य डत्तु० → अत्तु० इति । “डित्यन्त्यः ' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तत्तु० ॥४०४॥
एत्थु कुत्रा-ऽत्रे ॥ ८।४।४०५ ॥ अपभ्रंशे कुत्र-अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति ॥ १. G. तहे।
यावदा............]