________________
५८६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[तिह] तथा । अनेन "था"स्थाने डिह० → इह० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तिह० ।
[जिह] यथा । अनेन "था"स्थाने डिह० → इह० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) यिह० । 'आदेर्यो जः' (१।२४५) यिह० → जिहः ।
[तिध] तथा । अनेन "था"स्थाने डिध० → इध० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् तिध । - [जिध] यथा । अनेन "था"स्थाने डिध० → इध० इति । 'डित्यन्त्य०' (२।१२११४) अलुक् । 'लोकात्' (१११४३) यिध० । 'आदेर्यो जः' (१।२४५) यिध० → जिध० ॥४०१॥
यादृक्-तादृक्-कीदृगीदृशां दादेर्डेहः ॥ ८।४।४०२ ॥ अपभ्रंशे यादृगादीनां दादेरवयवस्य डिद् एह इत्यादेशो भवति ॥ मई भणिअउ बलिराय ! तुहं केहउ मर्गणु एहु ? । जेहु तेहु न वि होइ वढ ! सई नारायणु एहु ॥१॥ [यादृक्-तादृक्-कीदृगीदृशाम् ] यादृक्-तादृक्-कीदृक्-ईदृश् षष्ठी आम् । [दादेर्डेहः ] दादि षष्ठी ङस् । डेह प्रथमा सि । [ मई भणिअउ बलिराय !.........]
अस्यार्थ:- हे बलिराज ! मया त्वं भणितः, कीदृग मार्गण एषः ? । बलिराह-हे वढ ! हे मूर्ख ! यादृक् तादृग न भवति । ईदृक् स्वयं नारायण इत्यर्थः ।
[केहउ] कीदृक् । अनेन "दृक्"स्थाने डेह० → एह० इति । 'डित्यन्त्य०' (२।१।११४) ईलुक् । 'लोकात्' (११४३) केह । 'स्वार्थे कश्च वा' (२२१६४) कप्र० । प्रथमा सि । 'क-ग-च-ज०' (१२१७७) क्लुक् । 'सौ पुंस्योद्वा' (४।३३२) ('स्यमो०' (४३३१)) उ० केहउ ।
[जेहु] यादृक् । प्रथमा सि । 'आदेर्यो जः' (१।२४५) या० → जा० । अनेन "दृक्"स्थाने डेह० → एह० इति । 'डित्यन्त्यः' (२।१।११४) आलुक् । 'लोकात्' (१।१।३) जेह । ‘सौ पुंस्योद्वा' (४।३३२) ('स्यमो०' (४।३३१)) उ० जेहु।
[तेहु] तादृक् । प्रथमा सि । अनेन "दृक्"स्थाने डेह० → एह० इति । 'डित्यन्त्य०' (२।१।११४) आलुक् । 'लोकात्' (१२१२३) तेह । 'सौ पुंस्योद्वा' (४,३३२) ('स्यमो०' (४३३१)) उ० तेहु ।
[एह] ईदृक् । प्रथमा सि । अनेन "दृ"स्थाने डेह० → एह० इति । 'डित्यन्त्य०' (२।१।११४) ईलुक् । 'सौ पुंस्योद्वा' (४।३३२) ('स्यमो०' (४।३३१)) उ० एह ॥४०२॥
अतां डइसः ॥ ८।४।४०३ ॥ अपभ्रंशे यादृगादीनामदन्तानां यादृश-तादृश-कीदृशेदृशानां दादेरवयवस्य डिद् अइस इत्यादेशो भवति । जइसो । तइसो । कइसो । अइसो ॥
१.
H.
M. मग्ग
ण ।