________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
एवं तिध-जिधावुदाहा? ॥ [केम समप्पउ दुडु दिणु......]
अस्यार्थः- दुष्टो दिनः कथं समाप्यताम् ? रात्रिः कथम्भवति ? । छुडु यदि भविष्यतीत्यर्थः । यदि शब्देन भविष्यत्कालः । सोऽपि नववधूदर्शनलालसः । एवंविधान् विशेषो मनोरथान् वहतीत्यर्थः ।
[केम] कथम् । अनेन "थम्" स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् केम । [किध ] कथम् । अनेन “थम्" स्थाने डिध० → इध० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् किध । [ओ गोरी-मुह-निज्जिअ..........]
ओ सूचनायाम् । गौरीमुखनिर्जितको मृगाङ्कोऽभ्रे निलीनः । अन्योऽपि यः परिभूततनुः सो निःशङ्कं कथं भ्रमतीत्यर्थः ।
[किवं] कथम् । अनेन "थम्" स्थाने डिम० → इम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः किवँ ।
[बिंबाहरि तणु रयण-वणु.........]
अस्यार्थः- हे श्रीआनन्द ! तन्व्या बिम्बाधरे रदनवणं-दन्तव्रणं कथं स्थितम् ? । उत्तरं ददाति-जणु उत्प्रेक्ष्यते । प्रियेण अधरस्य निरुपमं रसं पीत्वा शेषस्य रसस्य मुद्रा दत्ता इत्यर्थः ।
[किह] कथम् । अनेन "थम्" स्थाने डिह० → इह० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् किह । [भण सहि ! निहुअउं तेवँ मई.........]
अस्यार्थ:- हे सखि ! मां प्रति निभृतं-छनं यथास्यात्तथा भण-कथय । यदि त्वया प्रियः सरो(दो)षो दृष्टः । तस्य पक्षापतितं - तस्यान्यनरस्य पार्वे स्थितं मम मनो यथा न जानाति । भर्तेति गम्यते । ममाग्ने तथा त्वया छनं वाच्यमित्यर्थः ।
[तेवँ] तथा । अनेन "था"स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१२११३) तेम० । 'मोऽनुनासिको वो वा' (४३९७) मस्याऽधो वः तेव।।
[जेव] यथा । अनेन "था"स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२।१२११४) अलुक् । 'लोकात्' (१।१।३) येम० । 'आदेर्यो जः' (१२२४५) येम० → जेम० । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः जेवं ।
[जिव जिव वंकिम लोअणहं......] एकपदम् ।
यथा (२) । अनेन "था"स्थाने डिम० → इम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् । 'लोकात्' (१।१।३) यिम० । 'आदेर्यो जः' (१२४५) यिम० → जिम० । 'मोऽनुनासिको वो वा' (४३९७) मस्याऽधो वः जिवं जिवँ ।
[तिवँ तिवँ वम्मह निअय-सर....] एकपदम् ।
तथा (२) । अनेन "था"स्थाने डिम० → इम० इति । 'डित्यन्त्य.' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तिम० । 'मोऽनुनासिको वो वा' (४.३९७) मस्याऽधो वः तिवं तिवें ।
[मई जाणिउं पिअ ! विरहिअहं........] पूर्व लिखितमेव । [४।३७७-१] । १. 0. छुडु-अव्य० (दे०) यदि "छुडु चीरत्तणु होइ मणूसहो" । यदि मनुष्यमें थोडा धैर्य हो ।