________________
५८४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे।
आपद्-विपत्-सम्पदां द इः ॥ ८।४।४०० ॥ अपभ्रंशे आपद्-विपत्-सम्पद् इत्येतेषां दकारस्य इकारो भवति ॥ अनउ करंतहो पुरिसहो आवइ आवइ । विवइ । संपइ ॥ प्रायोऽधिकारात् - गुणहिं न संपय कित्ति पर........[४।३३५-१] । [आपद्-विपत्-सम्पदां द इ.] आपद्-विपत्-सम्पद् षष्ठी आम् । द् षष्ठी ङस् । इ प्रथमा सि । [अनउ करंतहो पुरिसहो आवइ आवइ ]
अस्यार्थः- अनयं कुर्वतः पुरुषस्य आपद् आयाति आवाति वा इत्यर्थः । आपत् । प्रथमा सि । 'पो वः' (१०२३१) प० → व० । अनेन द० → इ० । 'स्यस्-जस्-शसां लुक् (४।३४४) सिलुक् आवइ ।
[विवइ ] विपद् । प्रथमा सि । 'पो वः' (१२२३१) प० → व० । अनेन द० → इ० । 'स्यम्-जस्०' (४।३४४) सिलुक् विवइ । [सम्पइ] सम्पद् । प्रथमा सि । अनेन द० → इ० । 'स्यम्-जस्०' (४।३४४) सिलुक् सम्पइ ॥४००।
कथं-यथा-तथां थादेरेमेमेहेधा डितः ॥ ८४४०१ ॥ अपभ्रंशे कथं-यथा-तथा इत्येतेषां थादेरवयवस्य प्रत्येकं एम-इम-इह-इध इत्येते डितश्चत्वार आदेशा भवन्ति ।। केम समप्पउ दुटु दिणु किथ रयणी छुडु होइ । नववहु-दसण-लालसउ वहइ मणोरह सो-इ ॥१॥
ओ गोरी-मुह-निज्जिअउ वद्दलि लुक्कु मियंकु । अन्नु-वि जो परिहविय-तणु सो किव भवइ निसंकु? ॥२॥ बिबाहरि तणु रयण-वणु किह ठिउ सिरि-आणंद ! । निरुर्वम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द ॥३॥ भण सहि ! निहअउं तेवँ मई जइ पिउ दिट्र स-दोस । जेवँ न जाणइ मज्झु मणु पक्खोवडिअं तासु ||४|| जिव जिवं वंकिम लोअणहं निरु सावलि सिक्खेइ । तिवं तिवं वम्मह निअय-सर खर-पत्थरि तिक्खेइ ॥५॥ मई जाणिउं पिअ ! विरहिअहं क-वि धर होइ विआलि । नवर मिअंकु वि तिह तवइ जिह दिणयरु खय-गालि ॥६॥
१. P. मणोरहु । २. G. निरुवढं। ३. मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते । मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि ।। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना । नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ [अमरुशतकम्-७०] सखी सिखावति मान विधि सैंननि बरजति बाल । हरुये कहि मो हिय बसत सदा बिहारीलाल ।
[बिहारी सतसई- "बिहारी सतसई का छन्द(दोहा) और उसकी विशेषताएँ"] ४. G.P. भणु । ५. G. पक्खावडिअउं।