________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[जिव जेव] यथा (२) । 'कथं-यथा-तथां थादेः०' (४।४०१) डिद् इम-एम० । 'डित्यन्त्य०' (२।१११४) अन्त्यस्वरादिलोप: । 'आदेर्यो जः' (१।२४५) य० → ज० । अनेन । जिव जेवँ ।
[तिव॑ तेवँ] तथा (२) । 'कथं-यथा-तथां थादे:०' (४।४०१) डिद् इम-एम० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । अनेन । तिवँ तेवँ ।
[जावँ ] यावत् । 'यावत्तावतोर्वादेर्म०' (४।४०६) वत्० → म० । 'आदेर्यो जः' (१।२४५) या० → जा० । अनेन मस्याऽधो व० जाएँ।
[ताव ] तावत् । ‘यावत्तावतोर्वादेर्म०' (४।४०६) वत्० → म० । अनेन मस्याऽधो व० तावें। [तसु पर सभलउँ जम्मु] पूर्वं लिखितम् । [४।३९६-३] ॥३९७||
वाऽधो रो लक ॥ ८॥४॥३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग वा भवति ॥ . जइ केवइ पावीसु पिउ [४।३९६-४] । पक्षे- जइ भग्गा पारक्कडा तो सहि ! मज्झु प्रियेण [४।३७९-२] || [वाऽधो रो लुक् ] वा प्रथमा सि । अधस् षष्ठी ङस् । र् षष्ठी ङस् । लुक् प्रथमा सि ।
[जइ केवइ पावीस पिउ] पूर्व लिखितम् । प्रिय । द्वितीया अम् । अनेन वा लुक् । 'स्यमोरस्योत्' (४३३१) य० → यु० पिउ। [जइ भग्गा पर पा )रक्कडा तो सहि ! मज्झु प्रियेण ] पूर्वं लिखितम् । [४।३७९-२] ॥३९८॥
अभूतोऽपि क्वचित् ॥ ८।४।३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोऽपि रेफो भवति । वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु ॥ मायहं चलण नवंताहं दिवे दिवे गंगा-हाणु ॥१॥ वासेण वि भारह-खंभि बद्ध ॥२॥
[अभूतोऽपि क्वचित् ] अभूत प्रथमा सि । अपि प्रथमा सि । क्वचित् प्रथमा सि ।
[वासु महारिसि एउ भणइ....................]
अस्यार्थः- व्यासो महर्षिः एतद् भणति । यदि श्रुतिशास्त्रं प्रमाणं तर्हि मातृणां चरणौ नमतां सतां दिवसे दिवसे गङ्गास्नानमित्यर्थः ।
[वासु] व्यास । प्रथमा सि । 'अधो म-न-याम्' (२।७८) यलुक् । अनेन वस्याऽधो रः । 'स्यमोरस्योत्' (४।३३१) स० → सु० वासु।
[वासेण वि भारह-खंभि बद्ध] व्यासेनाऽपि भारतस्तम्भे बद्धम् । क्वचित् पठनादत्र रो न स्यात् ॥३९९॥ १-२. A. उदाहरणमस्ति ।