________________
५८२
व्युत्पत्तिदीपिकाभिधान- दुण्डिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[ जं दिट्ठउं सोमग्गहणु...
1
I
अस्यार्थः - असतीभिर्यत् सोमग्रहणं दृष्टं दृष्टकं तन्निःशङ्कं यथास्यात्तथा हसितम् । हे राहो ! प्रियमानुषविक्षोभकरं - इष्टपुरुषवियोगकरं मृगाङ्कं गिल गिलेत्यर्थः ।
[पिअमाणुसविच्छोहगरु ] प्रियमानुषविक्षोभकर । द्वितीया अम् । अनेन कस्य गः । 'स्यमोरस्योत्' (४।३३१) २० → रु० । शेषं स्पष्टम् ।
[ अम्मीए ! सत्थावत्थेर्हि..
]
अस्यार्थः- स्त्री कथयति । हे अम्ब ! स्वस्थावस्थै: - स्वस्थचित्तैः । सुखेन मानश्चिन्त्यते - अहङ्कारः क्रियते । परं प्रिये दृष्टे सति हल्लोहलेन व्याकुलत्वेन कः आत्मानं चेतयतीत्यर्थः ।
-
[सुधें] सुख । तृतीया टा । अनेन खस्य घः । 'एं चेदुतः ' ( ४ ३४३) टाया एं सुधें ।
[ सबधु करेप्पिणु कधिदु..... .........]
अस्यार्थः- शपथं कृत्वा मया कथितं पर- केवलं तस्य जन्म सफलं यस्य त्यागो न प्रमृष्टः- न प्रमुषित:- दानं न गतम् । यस्य चारभटी न प्रमुषिता - सूरवृत्तिर्न गता । यस्य धर्मो न च प्रमृष्टः न प्रमुषित इत्यर्थः ।
शपथं कथितं - सफलं सफलकं । अनेन थस्य धः । तस्य च दः । पस्य च बः । फस्य च भः । [ जइ केवइ पावीसु पिउ
]
अस्यार्थः- स्त्री कथयति । यदि कथञ्चित् प्रियं प्राप्स्ये ( प्राप्स्यामि) तर्हि अकृतं कौतुकं करिष्यामि । यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति तथा सर्वाङ्गेण प्रवेक्ष्यामीत्यर्थः ।
[ उअ कणिआरु पफुल्लि अज.....
]
त्वं पश्य कर्णिकारः प्रफुल्लितः । किंविशिष्टः ? काञ्चनकान्तिप्रकाशः । नं उत्प्रेक्ष्यते । गौरीवदनविनिर्जितः सन् वनवासं सेवते इत्यर्थः ॥ ३९६ ॥
मोऽनुनासिको वो वा ॥ ८।४।३९७ ॥
अपभ्रंशेऽनादौ वर्तमानस्याऽसंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥
कलु कमलु । भरु भमरु | लाक्षणिकस्यापि - जिवँ । तिवँ । जेवँ ॥ अनादावित्येव - मयणु || असंयुक्तस्येत्येव वँ । सुपर सभलउँ जम्मु [४।३९६-३ ] ॥
[ मोऽनुनासिको वो वा ] म् षष्ठी ङस् । अनुनासिक प्रथमा सि । व प्रथमा सि । वा प्रथमा सि ।
[ कवँलु कमलु ] कमल (२) । अनेन वा मस्याऽधो वः । प्रथमा सि । 'स्यमोरस्योत्' (४|३३१) ल० लु० कलुकलु ।
[ भवँरु भमरु ] भ्रमर (२) । अनेन वा मस्याऽधो वः । 'सर्वत्र ल० ' (२।७९) लुक् । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) र०रु० भवँरु भमरु ।
१. H. हे अम्बिके ! ।