________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४३७
पक्षे- [उन्नावइ ] उत्पूर्व० 'णमं प्रह्वत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । उनमन्तं प्रयुङ्क्ते । 'प्रयोक्त०' (३।४।२०) णिगप्र० । 'रुद-नमोर्वः' (४।२२६) मस्य वः । 'णेरदेदावावे' (३।१४९) णिग् → अत्० । 'लोकात्' (१।१।३) उन्नव० । 'अदेल्लुक्यादे०' (३।१५२) आत्त्वम्-न० → ना० उन्नावइ । ऊर्ध्वं भवतीत्यर्थः ॥३६॥
प्रस्थापेः पट्ठव-पेण्डवौ ॥८॥४॥३७॥
प्रपूर्वस्य तिष्ठतेर्ण्यन्तस्य पट्ठव-पेण्डव इत्यादेशौ वा भवतः ॥ पट्ठवइ । पेण्डवइ । पट्टावइ । [ प्रस्थापेः पट्ठव-पेण्डवौ ] प्रस्थापि षष्ठी ङस् । पट्ठव-पेण्डव प्रथमा औ ।
पक्षे- [पट्ठावइ] प्रपूर्व० स्था । प्रतिष्ठमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'अति-री-व्ली-ही.' (४।२।२१) पोन्तः । 'स्थष्ठा-थक्क०' (४।१६) स्था० → ठा० । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययोरुपरि पूर्वः' (२।९०) पूर्वठस्य टः । 'स्वरादनतो वा' (४।२४०) अत् । 'लुक् (११०) णिग्लोपः । अथवा 'णेरदेदावावे' (३.१४९) आव० । 'सर्वत्र ल-व०' (२७९) लुक् । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पट्ठावइ। चालयतीत्यर्थः ॥३७॥
विज्ञपेर्वोक्का-ऽवुक्कौ ॥ ८।४।३८ ॥
विपूर्वस्य जानातेय॑न्तस्य वोक्क-अवुक्क इत्येतावादेशौ वा भवतः ॥ वोक्कइ । अवुक्कइ । विण्णवइ । [विज्ञपेर्वोक्का-ऽवुक्कौ ] विज्ञपि षष्ठी ङस् । वोक्क-अवुक्क प्रथमा औ ॥
पक्षे- [विण्णवइ] विपूर्व० 'ज्ञांश अवबोधने' (१५४०) ज्ञा । 'विजानन्तं प्रयुङ्क्ते । 'प्रयोक्तव्यापारे०' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → आव० । 'स्वराणां स्वराः' (४।२३८) ज्ञा० → ज्ञ० । 'म्न-ज्ञोर्णः' (२२४२) ज्ञस्य ण० । 'अनादौ०' (२१८९) णस्य द्वित्वम् । वर्त० तिव् । 'लुक' (१।१०) अलुक् । 'लोकात्' (१।१।३) विण्णवति 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० विण्णवइ । विज्ञपयतीत्यर्थः ॥३८॥
अरल्लिव-चच्चुप्प-पणामाः ॥ ८।४।३९ ॥ अपर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति । अल्लिवइ । चच्चुप्पइ । पणामइ । पक्षे-अप्पेइ । [ अर्परल्लिव-चच्चुप्प-पणामाः] अपि षष्ठी ङस् । अल्लिव-चच्चुप्प-पणाम प्रथमा जस् ।
पक्षे- [अप्पेइ] ' प्रापणे च' (२६) ऋ। 'ऋक् गतौ' (११३५) ऋ । ऋच्छति-इयति वा कश्चित्, तं ऋच्छन्तं इयून्तं वा अन्यः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'अर्ति-री-व्ली०' (४।२।२१) पोऽन्तः । 'पुस्-पौ' (४।३।३) अर् । अर्प इति जाते ‘णेरदेदावावे' (३।१४९) णिग्० → एत् । 'लोकात्' (१।१।३) अर्प० । 'सर्वत्र०' (२६७९) लुक् । 'अनादौ०' (२।८९) द्वित्वम् - प्पे० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० अप्पेड़ । अर्पयतीत्यर्थः ॥३९॥
यापेर्जवः ॥८॥४॥४०॥
यापेय॑न्तस्य जव इत्यादेशो वा भवति || जवइ । जावेइ ॥
[यापेर्जवः] यापि षष्ठी ङस् । जव प्रथमा सि ।
१. E. विजानानं । २. C. M. याते ।