________________
४३८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
पक्षे- [जावेइ ] 'यांक प्रापणे' (१०६२) या । यान्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'अर्ति-री-व्लीही०' (४।२।२१) पोऽन्तः । 'णेरदेदावावे' (३।१४९) णिग्० → एत् । 'पो वः' (१४२३१) पे० → वे० । 'आदेर्यो जः' (१।२४५) या० → जा० । वर्त्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव् → इ० जावेइ । यापयतीत्यर्थः ॥४०॥
प्लावेरोम्वाल-पव्वालौ ॥ ८४।४१ ॥ प्लवतेय॑न्तस्य एतावादेशौ वा भवतः ॥ ओम्वालइ । पव्वालइ । पावेइ ॥ [प्लावेरोम्वाल-पव्वालौ] प्लावि षष्ठी ङस् । ओम्वाल-पव्वाल प्रथमा औ ।
पक्षे- [पावेइ ] च्युङ् (५९४) - ज्युंङ् (५९५) - जुंङ् (५९६) - मुंङ् (५९७) - ‘प्लुंङ् गतौ' (५९८) प्लु । प्लवमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'उवर्णस्यावः' (४।२३३) प्लु० → प्लव० । 'णेरदेदावावे' (३,१४९) णिग् → एत् । 'लोकात्' (१।१३) प्लवे० । 'अदेल्लुक्यादे०' (३३१५२) आ० - प्ल० → प्ला० । 'सर्वत्र०' (२।७९) ल्लुक् पावेइ । प्लावयतीत्यर्थः ॥४१॥
विकोशेः पक्खोडः ॥ ८।४।४२ ॥ विकोशयते मधातोर्ण्यन्तस्य पक्खोड इत्यादेशो वा भवति ॥ पक्खोडइ । विकोसइ ॥ [विकोशेः पक्खोडः ] विकोशि षष्ठी ङस् । पक्खोड प्रथमा सि ।
पक्षे-[विकोसइ ] विकोश इति नामधातुः । विकोशं करोतीति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लुक् (१।१०) अलुक् । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'शषोः सः' (१।२६०) श० → स० विकोसइ ॥४२॥
रोमन्थेरोग्गाल-वग्गोलौ ॥८॥४॥४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओग्गालइ । वग्गोलइ । रोमन्थइ । [रोमन्थेरोग्गाल-वग्गोलौ ] रोमन्थि षष्ठी ङस् । ओग्गाल-वग्गोल प्रथमा औ ।
पक्षे- [रोमन्थइ] रोमन्थ इति नामधातुः । रोमन्थं करोतीति । णिचप्र० । 'णेरदेदावावे' (३३१४९) णिच् → अत्० । 'लुक् (१।१०) अलुक् । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० रोमन्थइ ॥४३॥
कमेणिहुवः ॥ ८।४।४४ ॥ कमेः स्वार्थण्यन्तस्य णिहव इत्यादेशो वा भवति ॥ णिहवइ । कामेइ ॥ [कमेणिहुवः ] कमि षष्ठी ङस् । णिहुव प्रथमा सि ।
पक्षे- [कामेइ] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० → इ० । 'ञ्णिति' (४।३।५०). उपान्त्यवृद्धिः क० → का० । 'णेरदेदावावे' (३।१४९) णि → एत्० । 'लोकात्' (१।१।३) कामे । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० कामेड़ । वाञ्छां करोतीत्यर्थः ॥४४॥
प्रकाशेणुव्वः ॥ ८।४।४५ ॥ प्रकाशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ ॥ [प्रकाशेणुव्वः] प्रकाशि षष्ठी ङस् । णुव्व प्रथमा सि ।