________________
४३६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
दृशेर्दाव-दंस-दक्खवाः ॥ ८।४।३२ ॥ दृशेय॑न्तस्य एते त्रय आदेशा वा भवन्ति || दावइ । दसइ । दक्खवइ । दरिसइ ॥ [दृशेव-दस-दक्खवाः] दृशि षष्ठी ङस् । दाव-दंस-दक्खव प्रथमा जस् ।
पक्षे- [ दरिसइ ] 'दृशं प्रेक्षणे' (४९५) दृश् । पश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → अत्० । 'लोकात्' (१११३) दृश० । 'वृषादीनामरिः' (४।२३५) दृ० → दरि० । 'शषोः सः' (१।२६०) श० → स० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० दरिसइ ॥३२॥
उद्घटेरुग्गः ॥ ८।४।३३ ॥ उत्पूर्वस्य घटेर्ण्यन्तस्य उग्ग इत्यादेशो वा भवति ॥ उग्गइ । उग्घाडइ ॥ [ उद्घटेरुग्गः ] उद्घटि षष्ठी ङस् । उग्ग प्रथमा सि ।
पक्षे- [उग्घाडइ] उद्पूर्व० 'घटिष् चेष्टायाम्' (१०००) घट् । उद्घटमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'णेरदेदावावे' (३३१४९) णिग्० → अत् । 'लोकात्' (१।१।३) उद्घट० । 'अदेल्लुक्यादे०' (३।१५३) घ० → घा० । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२२८९) द्वित्वं - घ्या० । 'द्वितीय-तुर्ययो०' (२।९०) घ० → ग्० । 'टो डः' (१।१९५) ट० → ड० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उग्घाडइ ॥३३॥
स्पृहः सिहः ॥ ८॥४॥३४ ॥ स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति ॥ सिहइ । [स्पृहः सिहः ] स्पह षष्ठी ङस् । सिह प्रथमा सि ।
[सिहइ ] 'स्पृहण ईप्सायाम्' (१९२८) स्पृह । स्पृहयन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । अनेन णिग्सहितस्य स्पृहः सिह आदेशः । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सिहइ । स्पृहयतीत्यर्थः ॥३४॥
सम्भावेरासंघः ॥ ८।४।३५ ॥ सम्भावयतेरासंघ इत्यादेशो वा भवति ॥ आसंघइ । सम्भावइ ॥, [सम्भावेरासंघः] सम्भावि षष्ठी ङस् । आसंघ प्रथमा सि ।
पक्षे- [सम्भावइ ] 'भू सत्तायाम्' (१) भू, सम्पूर्व० । सम्भवति कश्चित्, तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'उवर्ण०' (४।२३३) भव० । 'णेरदेदावावे' (३।१४९) अत् । 'अदेल्ल०' (३।१५३) भ० → भा० । 'लोकात्' (१।१।३) सम्भाव । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सम्भावइ । सम्भावनां करोतीत्यर्थः ॥३५॥
उनमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः ॥ ८।४।३६ ॥ उत्पूर्वस्य नमेय॑न्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थंघइ । उल्लालइ । गुलुगुञ्छइ । उप्पेलइ । उन्नावइ ॥ [उनमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः] उन्नमि षष्ठी ङस् । उत्थंघ-उल्लाल-गुलुगुञ्छ-उप्पेल प्रथमा जस् ।