________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४३५
[तडेराहोड-विहोडौ] तडि षष्ठी ङस् । आहोड-विहोड प्रथमा औ।
पक्षे- [ताडेइ] 'तडण आघाते' (१६२६) तड् । णिचप्र० । 'णेरदेदावावे' (३३१४९) णिच् → एत्० । 'लोकात्' (१।१।३) तडे० । 'अदेल्लुक्यादे०' (३।१५३) त० → ता० ताडेइ ॥२७॥
__ मिश्रेर्वीसाल-मेलवौ ॥ ८।४।२८ ॥ मिश्रयतेय॑न्तस्य वीसाल-मेलव इत्यादेशौ वा भवतः ॥ वीसालइ । मेलवइ । मिस्सइ ॥ [मिश्रेर्वीसाल-मेलवौ ] मिश्रि षष्ठी ङस् । वीसाल-मेलव प्रथमा औ ।
पक्षे- [मिस्सइ] मिश्र इति नामधातुः । मिश्रं करोतीति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लोकात्' (१२१२३) मिश्र० । 'सर्वत्र ल-व०' (२७९) लुक् ।
।८९) द्वित्वं-श्श० । 'श-षोः सः' (१।२६०) स्स० । वर्त० तिव् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० मिस्सइ ॥२८॥
उद्धृलेर्गुण्ठः ॥ ८।४।२९ ॥ उधूलेय॑न्तस्य गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठइ । पक्षे- उद्धृलेइ । [ उद्धृलेर्गुण्ठः ] उधूलि षष्ठी ङस् । गुण्ठ प्रथमा सि ।
पक्षे- [उ लेइ ] उत्पूर्व० धूलिः । धूलिमुत्क्षिपतीति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच्० → एत्० । 'लुक् (१।१०) इलुक् उर्दूलेइ ॥२९।।
भ्रमेस्तालिअण्ट-तमाडौ ॥ ८४३० ॥ भ्रमयतेय॑न्तस्य तालिअण्ट-तमाड इत्यादेशौ वा भवतः ।। तालिअण्टइ । तमाडइ । भामेइ । भमाडेइ । भमावेइ ।। [भ्रमेस्तालिअण्ट-तमाडौ] भ्रमि षष्ठी ङस् । तालिअण्ट-तमाड प्रथमा औ ।
पक्षे- [भामेइ भमाडेइ भमावेइ ] 'भ्रमू चलने' (९७०) भ्रम् । भ्रमन्तं प्रयुङ्क्ते । 'प्रयोक्त०' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → एत्० । 'अदेल्लुक्यादेरत आः' (३३१५३) भ्र० → भ्रा० । 'सर्वत्र०' (२७९) लुक् भामेइ । पक्षे -'भ्रमेराडो वा' (३।१५१) णिग् → आड० । 'वर्तमाना-पञ्चमी-शतृषु वा' (३१५८) एत्त्वं - भमाडेइ । तृतीये 'णेरदेदावावे' (३।१४९) णिग्० → आवे० भमावेइ ॥३०॥
नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ८।४।३१ ॥ नशेय॑न्तस्य एते पञ्चादेशा वा भवन्ति ॥ विउडइ । नासवइ । हारवइ । विप्पगालइ । पलावइ । पक्षे - नासइ ।
[नशेविउड-नासव-हारव-विप्पगाल-पलावाः] नशि षष्ठी ङस् । विउड-नासव-हारव-विप्पगाल-पलाव प्रथमा जस् ।
पक्षे- [नासइ] 'नशौच अदर्शने' (१२०२) नश् । नश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → अत्० । 'अदेल्लुक्यादे०' (३।१५३) आ-न० → ना० नासइ ॥३१॥