________________
४३४
व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[दूङो दूम: ] दूङ् षष्ठी ङस् । दूम प्रथमा सि ।
[ दूमेइ मज्झ हिअयं ] "टुदुंट् उपतापे' (१२९७) दु । दुन्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । अ दूम आदेश: । 'णेरदेदावावे' (३।१४९) णिग्ο → एत्० । 'लोकात्' (१।१।३) दूमेति । 'त्यादीनामाद्य०' (३|१३९) तिव्० → इ० दूमेइ । परितापमाप्नोतीत्यर्थः ।
अस्मद् । षष्ठी आम् । 'णे- णो- मज्झ - अम्ह० ' ( ३।११४) अस्मद आमा सह मज्झ आदेशः ।
हृदय । 'इत् कृपादौ' (१।१२८) हृ० हि० । 'क-ग-च-ज०' (१।१७७) लुक् हिअयं ||२३||
धवलेर्दुमः ॥ ८।४।२४ ॥
धवलयतेर्ण्यन्तस्य दुमादेशो वा भवति ॥
दुमइ । धवलइ । 'स्वराणां स्वरा:' (४।२३८ ) - 'बहुलम् ' (१।२) इति दीर्घत्वमपि - दूमिअं - धवलितमित्यर्थः ॥
[ धवलेर्दुमः ] धवलि षष्ठी ङस् । दुम प्रथमा सि ।
[ दुमइ ] धवल । धवलं करोतीति । णिच्प्र० । अनेन दुम० । 'णेरदेदावावे' (३।१४९) णिच्स्थाने अत् । 'लुक् ' (१।१०) अलुक् । वर्त्त० तिव् । 'त्यादीनामाद्य०' ( ३।१३९) तिव्० → इ० दुमइ ।
पक्षे- [ धवलइ ] धवलइ । 'णेरदेदावावे' (३।१४९) अत् । 'अदेल्लुक्यादे० ' ( ३।१५३) आत्वम् । 'स्वराणां स्वराः ' (४।२३८) अत्वम् धवलइ ।
[ दूमिअं] दूम । क्तप्र० । 'एच्च क्त्वा ० ' ( ३।१५७) ('ते' (३।१५६)) इ० मि ||२४||
तुलेरोहामः || ८|४।२५ ॥
तुलेर्ण्यन्तस्य ओहाम इत्यादेशो वा भवति || ओहामइ । तुलइ ॥
[ तुलेरोहाम: ] तुलि षष्ठी ङस् । ओहाम प्रथमा सि ।
[ ओहामइ तुलइ ] ओहामइ । 'तुलण् उन्माने' (१६९२) तुल् । तु (तो) लयतीत्यर्थः ॥२५॥
विरिचेरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ८।४।२६ ॥
विरेचयतेर्ण्यन्तस्य ओलुण्डादयस्त्रय आदेशा वा भवन्ति ॥ ओलुण्डइ । उल्लुण्डइ । पल्हत्थइ । विरेअइ ॥ [ विरिचेरोलुण्डोल्लुण्ड-पल्हत्था: ] विरिचि षष्ठी ङस् । ओलुण्ड-उल्लुण्ड - पल्हत्थ प्रथमा जस् ।
पक्षे - [ विरेअइ ] 'रिचण् वियोजने च' (१९५२) रिच्, विपूर्व० । 'णिज्बहुलं०' (३|४|४२) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच्स्थाने अत् । 'लोकात् ' (१|१|३) विरिच । " स्वराणां स्वराः ' ( ४।२३८) रे० । 'क-ग-चज०' (१।१७७) च्लुक् विरेअइ ||२६||
तडेराहोड - विहोडौ ॥ ८।४।२७ ॥ तडेर्ण्यन्तस्य एतावादेशौ वा भवत्तः ॥ आहोडइ । विहोडइ । पक्षे ताडेइ ॥
१. सूत्रे दूङ इत्युक्तत्वात् 'दूङ्च् परितापे' (१२४३) धातोर्ग्रहणं सम्यक् प्रतिभाति । २. G. णेरत्वे बाहुलकात् 'अदेल्लुक्यादे०' (३।१५३) न । ‘स्वराणां स्वरा:' (४।२३८) पुनरत्वम् । ३. G. 'युवर्णस्य गुण:' ( ४।२३७) ए० ।