________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४३३
[निम्माणइ निम्मवइ] निर् 'मांङ् मान-शब्दयोः' (११३७) मा । अनेन उपसर्गेण सहैवादेशौ - निम्माणइ । निम्मवइ ॥१९॥
क्षेणिज्झरो वा ॥ ८।४।२० ॥ क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे-झिज्जइ ।। [णिज्झरो वा] क्षि षष्ठी ङस् । णिज्झर प्रथमा सि । वा प्रथमा सि ।
पक्षे- [झिज्जइ ] 'क्षि क्षये' (१०) क्षि । वर्त० तिव् । 'क्षः खः क्वचित्तु छ-झौ' (२२३) क्षि० → झि० । 'मध्ये च स्वरान्ताद्वा' (३।१७८) ज्ज आगमः । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० झिज्जइ । क्षयतीत्यर्थः ॥२०॥
छदेणैर्गुम-नूम-सन्नुम-ढक्कौम्वाल-पव्वालाः ॥ ८।४।२१ ॥ छदेय॑न्तस्य एते षडादेशा वा भवन्ति । णुमइ । नूमइ । णत्वे-णूमइ । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ ॥
[छदेणैर्गुम-नूम-सन्नुम-ढक्कौम्वाल-पव्वालाः ] छदि षष्ठी ङस् । णि षष्ठी ङस् । णुम-नूम-सन्नुम-ढक्कौम्वालपव्वाल प्रथमा जस् ।
पक्षे- [छायइ ] 'छदण संवरणे' (१६५५) छद् । वर्त० तिव् । छद(छादय)न्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'णेरदेदावावे' (३।१४९) णिग→ अत् । 'लोकात्' (११॥३) छदति । 'अदेल्लुक्यादेरत आः' (३।१५३) छ. → छा० । 'क-ग-च-ज०' (१११७७) द्लुक् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० छाय)इ। आच्छादयतीत्यर्थः ॥२१॥
निवृ-पत्योणिहोडः ॥ ८४२२ ॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति ॥ णिहोडइ । पक्षे-निवारेइ । पाडेइ ॥ [निव-पत्योणिहोडः] निवृ-पति षष्ठी ओस् । णिहोड प्रथमा सि ।
पक्षे- [निवारेइ] निपूर्व० वृगट् वरणे' (१२९४) वृ । निवृण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'ऋवर्ण०' (४।२३४) वर० । 'णेरदेदावावे' (३१४९) णिग्० → एत्० । 'अदेल्लुक्यादेरत आः' (३।१५३) व० → वा० । 'लोकात्' (१।१।३) निवारेति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० निवारेइ ।
[पाडेइ] 'पत्तृ पतने' (९६२) पत् । पतन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'सद-पतोर्डः' (४।२१९) तस्य डः । 'णेरदेदावावे' (३।१४९) णिग्० → एत्० । 'अदेल्लुक्या०' (३।१५३) प० → पा० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० पाडेइ ।।२२।।
__दूङले दूमः ॥ ८।४।२३ ॥ दूङो ण्यन्तस्य दूम इत्यादेशो भवति ॥ 'दूमेइ मज्झ हिअयं ॥
१. दूमेइ अ मे हिअअं पुणो पुणो वि रहसंगजुत्ताणुणों।
दोसपराहुत्तठिअं वलंतमण्णुणिव्वोलिआहरं तीए मुहं ॥ [शृ० प्र० - ३०।४५] दुनोति च मे हृदयं पुनः पुनरपि रहस्सङ्गयुक्तानुनयम् । दोषपराङ्मुखस्थितं वलन्मन्युमलिनिताधरं तस्या मुखम् ॥