________________
५७८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
इत्तउं ब्रोप्पिणु सउणि ठिउ पुणु दूसासणु ब्रोप्पि । तो हउँ जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥२॥ [बूगो बुवो वा] ब्रूग् षष्ठी ङस् । ब्रुव प्रथमा सि । वा प्रथमा सि । [ब्रुवह सुहासिउ कि पि] एकपदम् । अर्थ:- किमपि सुभाषितं ब्रूते इत्यर्थः ।।
[बुवह ] 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । पञ्चमी त । अनेन ब्रू० → ब्रुव० । 'मध्यमस्येत्था-हचौ' (३१४३) त० → ह० बुवह ।
[इत्तउं ब्रोप्पिणु सउणि ठिउ...........]
अस्यार्थ:- दुर्योधनोक्तिरियम् । शकुनिः-भीममातुल इयत् ब्रूत्वा स्थितः । पुनः दुःशासनो ब्रूत्वा स्थितः । अहं ततस्तहि जाने यदि एष हरिर्ममाग्रे ब्रूत्वा तिष्ठतीति शेष इत्यर्थः ॥
[ब्रोप्पिणु] 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । क्त्वाप्र० । 'एप्प्येप्पिण्वेव्येविणवः' (४।४४०) क्त्वा० → एप्पिणु० । 'स्वराणां स्वराः' (४।२३८) एकारेण सह उकारस्य ओकारः ब्रोप्पिणु ।
[ब्रोप्पि] ब्रू । क्त्वाप्र० । 'एप्प्येप्पिण्वेव्येविणवः' (४४४०) क्त्वा० → एप्पि० । 'स्वराणां० स्वराः' (४।२३८) एकारेण सह ऊकारस्य ओकारः ब्रोप्पि ॥३९१॥
. व्रजेर्वजः ॥ ८।४।३९२ ॥ अपभ्रंशे व्रजतेर्धातोर्तुज इत्यादेशो भवति ॥ वुअइ । वुजेप्पि । वुञप्पिणु ॥ [व्रजेजः ] वजि षष्ठी ङस् । वुज प्रथमा सि ।
[वुञइ] 'व्रज गतौ' (१३७) व्रज् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) व्रजति । अनेन व्रज० → वुज० । 'त्यादीनामाद्य०' (३१३९) तिव्० → इ० वुञइ ।
[वुजेप्पि] व्रज् । क्त्वाप्र० । 'एप्प्येप्पिण्वेव्येविणवः' (४४४०) क्त्वा० → एप्पि० । अनेन व्रज० → वुज० वुजेप्पि ।
[वुप्पिणु] व्रज् । क्त्वाप्र० । 'एप्प्येप्पिण्वेव्येविणवः' (४।४४०) क्त्वा० → एप्पिणु० । अनेन व्रज० → वुज० वुजेप्पिणु ॥३९२॥
दृशेः प्रस्सः ॥ ८।४।३९३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति ॥ प्रस्सदि ॥ [ दृशेः प्रस्सः ] दृशि षष्ठी ङस् । प्रस्स प्रथमा सि ।
[प्रस्सदि] 'दृशं प्रेक्षणे' (४९५) दृश् । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) दृशइ । 'अतो देश्च' (४।२७४) इच्० → दि० । अनेन दृश० → प्रस्स० प्रस्सदि। पश्यतीत्यर्थः ॥३९३॥
ग्रहेगुण्हः ॥ ८।४।३९४ ॥ अपभ्रंशे ग्रहेर्धातोर्गण्ह इत्यादेशो भवति ॥ पढ गण्हेप्पिणु व्रतु ॥