________________
५७४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
पक्षे- इच्छह इत्यादि । [बहुत्वे हुः] बहुत्व सप्तमी ङि । हु प्रथमा सि । [बलि-अब्मत्थणि महु-महणु..........]
अस्यार्थ:- बलेरभ्यर्थने सोऽपि मधुमथनो नारायणोऽपि लघुकीभूतः । अथ यदीच्छत वृद्धत्वं तर्हि देदत कोऽपि मा मार्गयत इत्यर्थः ।
[इच्छहु] 'इषत् इच्छायाम्' (१४१९) इष् । पञ्चमी त । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) इषत । 'गमिष्यमासां छ:' (४।२१५) ष० → छ० । अनेन त० → हु० इच्छहु ॥३८४॥
अन्त्यत्रयस्याऽऽद्यस्य उं॥ ८।४।३८५ ॥ त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्याऽपभ्रंशे उं इत्यादेशो वा भवति ॥ . विहि विणडंउ, पीडंतु गह मं धणि ! करहि विसाउ । संपइ कड्ढडं वेस जिम्व छुडु अग्घइ ववसाउ ॥१॥ बलि किज्जलं सुअणस्सु [४३३८-१] पक्षे- कड्ढामि इत्यादि । [अन्त्यत्रयस्याऽऽद्यस्य उं] अन्त्यत्रय षष्ठी ङस् । आद्य षष्ठी ङस् । उं प्रथमा सि । [विहि विणडउ, पीडंतु गह.........]
अस्यार्थः- विधिविनटयतु । ग्रहाः पीडन्तु (पीडयन्तु) । हे प्रिये ! विषादं मा कुरु । वेषमिव संपदं कर्षयामि । यदि व्यवसायो अर्घति (स्यात् ?) तदा संपदः सुलभा इत्यर्थः ।
[कड्ढउं] 'कृष' (५०६) - 'कृषीत् विलेखने' (१३१९) कृष् । वर्त० मिव् । 'कृषः कड्ढ-साअड्ढाऽ-चाऽणच्छा-ऽयञ्छा-ऽऽइञ्छाः ' (४।१८७) कृष्० → कड्ढ० । अनेन मिव्० → उं० कड्ढउं ।
[बलि किज्जउं सुअणस्सु ] पूर्वं लिखितमेव [४।३३८-१] ।
[किज्जउं] 'डुकृग् करणे' (८८८) कृ। वर्त० ए । अनेन ए० → उं० वा । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'स्वराणां स्वराः' (४।२३८) ऋकारस्य इकारेण सह कि० किज्जउं । पक्षे-कड्ढामि ॥३८५॥
बहुत्वे हुं ॥ ८।४।३८६ ॥ त्यादीनामन्त्यत्रयस्य सम्बन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति । खग्ग-विसाहिउ जहिं लहहं पिअ ! तहिं देसहिं जाहं । रण- दुब्भिक्खें भग्गाइं विणु जुज्झें न वलाई ॥१॥ पक्षे- लहिमु इत्यादि । [बहुत्वे हुं] बहुत्व सप्तमी ङि । हुं प्रथमा सि ।
१. H. M. N. P. इच्छथ । २. H.P. ददथ I M. N. दत्त । ३. P. वि णडउ - अपि नटतु । ४. I. N. P. वेश्यामिव ।