________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५७५
[खग्ग-विसाहिउ जहि लहहुं..........]
अस्यार्थः- हे प्रिये ! यस्मिन् देशे खड्गेने विसाधितं लभामहे तस्मिन् देशे यामः । वयं रण-दुर्भिक्षेण भग्नाः । युद्धेन विना न वलामहे - न रतिं प्राप्नुमः इत्यर्थः ।
[लहहुं] 'डुलभिष् प्राप्तौ' (७८६) लभ् । वर्त० महे । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) लभमहे। 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । अनेन महे० → हुं० लहहुं ।
[जाहुं] 'यांक प्रापणे' (१०६२) या । वर्त० मस् । 'आदेर्यो जः' (१२२४५) या० → जा० । अनेन मस्० → हुं० जाहुं ।
[वलाहुं] 'वलि संवरणे' (८०७) वल् । वर्त० महे । अनेन वा महे० → हुं० । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१।३) वलहुं । 'स्वराणां स्वराः' (४।२३८) ल० → ला० वलाहुं पक्षे
[लहिमु] 'डुलभिष् प्राप्तौ' (७८६) लभ् । वर्त० महे । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) लभमहे। 'तृतीयस्य मो-मु-माः' (३३१४४) महे० → मु० । 'स्वराणां स्वराः' (४।२३८) भ० → भि० । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः लहिमु ॥३८६।।
हि-स्वयोरिदुदेत् ॥ ८।४।३८७ ॥ पञ्चम्या हि-स्वयोरपभ्रंशे इ-उ-ए इत्येते त्रय आदेशा वा भवन्ति ॥ ॥ इत् ॥ कुंजर ! सुमरि म सल्लइउ सरला सास म मेल्लि ।
कवल जि पाविय विहि-वसिण ते चरि माणु म मेल्लि ॥१॥ ॥ उत् ॥ भमरा ! एत्थु वि लिंबडइ के वि दिअहडा विलंबु ।
घण-पत्तलु छाया-बहुलु फुल्लइ जाम कयंबु ॥२॥ ॥ एत् ॥ प्रिय ! एवहिं करि सेल्लु करे छड्डहि तुहुं करवालु ।
जं(जें) कावालिय बप्पुडा लेहि अभग्गु कवालु ॥३।। पक्षे- सुमरहि इत्यादि । [हि-स्वयोरिदुदेत् ] हि-स्व षष्ठी ओस् । इत्-उत्-एत् प्रथमा सि । [कुञ्जर ! सुमरि म सल्लइउ.............]
अस्यार्थ:- कुञ्जर ! मा स्मर सल्लकीः । सरलान् - दीर्घान् श्वासान् मा मुञ्च । विधिवशेन ये कवलाः प्राप्तास्तान् चर। मानं मा मुञ्च इत्यर्थः ॥
ह
१. H. P. खग्गें वि साहिउ - खड्गेनापि साधितं । २. मा सुमरसु चंदणपल्लवाण करिणाह ! गेण्ह तिणकवलं । जा जह परिणमइ दसा तं तह धीरा पडिच्छंति ॥
[व० ल० - गयवज्जा - १९२-३] मा स्मर चन्दनपल्लवानां करिनाथ ! गृहाण तृणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रपद्यन्ते । ३. छप्पय ! गमेसु कालं वासवकुसुमाई ताव मा मुयसु । मन्ने जियंतो पेच्छसि पउरा रिद्धी वसंतस्स ॥
[व० ल० - इंदिदिरवज्जा- २४४।९] षट्पद ! गमयस्व कालं वासवकुसुमानि तावन्मा मुञ्च । मन्ये जीवन् पश्यसि प्रचुरा ऋद्धिर्वसन्तस्य ॥ ४. G. बहलु ।