________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५७३
मध्यत्रयस्याऽऽद्यस्य हिः ॥ ८।४।३८३ ॥ त्यादीनां मध्यत्रयस्य यदाद्यं वचनं तस्याऽपभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा ! पिउ पिउ भणवि कित्तिउ रुअहि हयास ! । तुह जलि महु पुणु वल्लहइ बिहुं वि न पूरिअ आस ॥१॥ ॥ आत्मनेपदे ॥ बप्पीहा ! 'काई बोल्लिएण निग्घिण ! वार इ वार ।
सायरि भरिअइ विमल-जलि लहहि न एक्क-इ धार ॥२॥ ॥ सप्तम्याम् ॥ आयहिं जेम्महिं अन्नहिं वि गोरि ! सु दिज्जहि कंतु ।
गय मत्तहं चत्तंकुसहं जो अभिडइ हसंतु ॥३॥ पक्षे- रुअसि इत्यादि । [मध्यत्रयस्याऽऽद्यस्य हिः ] मध्यत्रय षष्ठी ङस् । आद्य षष्ठी ङस् । हि प्रथमा सि । [बप्पीहा ! पिउ पिउ भणवि.........]
अस्यार्थः- हे बप्पीहा ! प्रिय ! प्रिय ! इति भणित्वा कियत् रोदिषि ? । हे हताश ! तव जलधरेण मम वल्लभेन द्वयोरपि आशा न पूरितेत्यर्थः ।
[रुअहि] 'रुदृक् अश्रुविमोचने' (१०८७) रुद् । वर्त० सिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) रुदसि । अनेन सिव्० → हि० । 'क-ग-च-ज०' (१।१७७) द्लुक् रुअहि ।
[बप्पीहा ! काई बोल्लिएण..........]
अस्यार्थः- हे बप्पीहा ! किं वारं २ कथनेन ? । हे निघृण ! हे निर्लज्ज ! विमलजलेन सागरे भृते एकामपि धारां न लभसे इत्यर्थः ।
[लहहि] 'डुलभिष् प्राप्तौ' (७८६) लभ् । वर्त० से । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (११०३) लभसे । 'ख-घ-थ-ध-भाम्' (१।१८७) भ० → ह० । अनेन वा से० → हि० लहहि ।
[आयहिं जम्महि अन्नहि............]
अस्यार्थः- हे गौरि ! हे पार्वति ! त्वमस्मिन् भवे अन्यस्मिन्नपि जन्मनि मम तं कान्तं दद्याः, यो हसन् मत्तानां त्यक्ताऽकुशानां गजानां सङ्गच्छते-सम्मुखो भवतीत्यर्थः ।
[दिज्जहि] 'डुदांग्क् दाने' (११३८) दा । सप्तमी यास् । अनेन यास्० → हि० । 'स्वराणां स्वराः' (४।२३८) दा० → दि० । 'वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा' (३।१७७) ज्ज आगमः दिज्जहि ॥३८३॥
बहुत्वे हुः ॥ ८।४।३८४ ॥ त्यादीनां मध्यत्रयस्य सम्बन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्याऽपभ्रंशे हु इत्यादेशो वा भवति ॥ बलि-अब्भत्थणि महु-महणु लहुईहआ सो-इ ।
जइ इच्छहु वड्डत्तणउं देहु म मग्गहु को-इ ॥१॥ १. G. कइँ । २. G. जमि ।