________________
५७२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अम्हहं भ्यसाम्भ्याम् ॥ ८।४।३८० ॥ अपभ्रंशे अस्मदो भ्यसा आमा च सह अम्हहं इत्यादेशो भवति ॥
अम्हहं होतउ आगदो ॥ आमा-अह भग्गा अम्हहं तणा....... [४-३७९-२] । [अम्हहं भ्यसाम्भ्याम् ] अम्हहं प्रथमा सि । भ्यस्-आम् तृतीया भ्याम् ।
[अम्हहं होतउ आगदो] अस्मद् (अस्मभ्यं) भवान् आगतः । अस्मद् । भ्यस्प्र० । अनेन भ्यसा सह अस्मद् → अम्हहं० । [अह भग्गा अम्हहं तणा.....] अस्मद् । षष्ठी आम् । अनेन आमा सह अस्मद्० → अम्हहं० ॥३८०॥
सुपा अम्हासु ॥ ८।४।३८१ ॥ अपभ्रंशे अस्मदः सुपा सह अम्हासु इत्यादेशो भवति ॥ अम्हासु ठिअं ॥ [सुपा अम्हासु] सुप् तृतीया टा । अम्हासु प्रथमा सि । [अम्हासु ठिअं] अस्मासु स्थितम् । अस्मद् । सप्तमी सुप् । अनेन सुपा सह अस्मद् → अम्हासु० ॥३८१॥
____ त्यादेराद्यत्रयस्य बहुत्वे हिं नवा ॥ ८।४।३८२ ॥ त्यादीनामाद्यत्रयस्य सम्बन्धिनो बहुष्वर्थेषु वर्तमानस्य वचनस्याऽपभ्रंशे हि इत्यादेशो वा भवति । मुर्ह-कबरि-बंध तहे सोह धरहिं, नं मल्ल-जुज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ, नं तिमिर-डिंभ खेलंति मिलिअ ॥१॥
[त्यादेराद्यत्रयस्य बहुत्वे हि नवा] त्यादि षष्ठी ङस् । आद्यत्रय षष्ठी ङस् । बहुत्व सप्तमी ङि। हिं प्रथमा सि । नवा प्रथमा सि ।
[मुह-कबरि-बंध तहे सोह धरहि..........]
अस्यार्थ:- तस्या मुखकबरिबन्धौ वदनवेणीबन्धौ शोभां धरतः । नं उत्प्रेक्ष्यते । शशि-राहू मल्लयुद्धं कुरुतः । तस्याः कुरला:-केशाः शोभन्ते । किविशिष्टा: कुरलाः ? भ्रमरकुलतुलिता:- सदृशाः । नं उत्प्रेक्ष्यते । तिमिरडिम्भाः - अन्धकारबालिका मिलिताः क्रीडन्तीत्यर्थः ।
[धरहिं] 'धृग् धारणे' (८८७) धृ । वर्त० तस् । 'द्विवचनस्य बहुवचनम्' (३।१३०) तस्० → अन्ति० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'ऋवर्णस्याऽरः' (४।२३४) धृ० → धर० । 'लोकात्' (१।१।३) धरन्ति । अनेन अन्ति० → हिं० धरहिं।
[करहिं] 'डुकंग करणे' (८८८) कृ । वर्त० तस् । 'द्विवचनस्य०' (३।१३०) तस्० → अन्ति० । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) करन्ति । अनेन अन्ति० → हिं० करहिं ।
[सहर्हि ] 'राजृग् दीप्तौ' (८९३) राज् । वर्त० तस् । “द्विवचनस्य बहुवचनम्' (३।१३०) तस्० → अन्ति० । 'राजेरग्घ-छज्ज-सह-रीर-रेहाः' (४।१००) राज्० → सह० । अनेन अन्ति० → हिं० सहहिं ॥३८२॥ १. घणसारतार-णअणाएँ गूढ-कुसुमुच्चयो चिहुर-भारो । ससि-राहु-मल्ल-जुझं व दंसिदमेण-णअणाएँ ॥ [क० म० २।२१]