________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
ङसा - तउ गुण-संपइ तुज्झु मदि तुध्र अणुत्तर खंति ।
जइ उप्पत्ति अन्न जण महि-मण्डलि सिक्खंति ॥१॥ [डसि-डस्भ्यां तउ-तुज्झु-तुध्र ] ङसि-ङस् तृतीया भ्याम् । तउ-तुज्झु-तुध्र प्रथमा सि ।
[तउ होतउ आगदो । तुज्झु होतउ आगदो । तुध्र होतउ आगदो] युष्मद् ३ । पञ्चमी उसि । अनेन ङसिना सह युष्मद् → तउ-तुज्झु-तुध्र० । त्वत्-त्वत्तो भवान् आगतः ।
[तउ गुण-संपइ तुज्झु..........]
अस्यार्थ:- महीमण्डले अन्ये जना यदि उपेत्य-तव पार्वे समागत्य तव गुणसंपदं शिक्षयन्ति । तव मतिं शिक्षयन्ति । तव अनुत्तरां क्षान्तिं शिक्षयन्ति तदा वरमिति गम्यते इत्यर्थः । युष्मद् ३ । षष्ठी ङस् । अनेन ङसा सह युष्मद् → तउ-तुज्झु-तुध० ॥३७२॥
भ्यसाम्भ्यां तुम्हहं ॥ ८॥४॥३७३ ॥ अपभ्रंशे युष्मदो भ्यस्-आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ॥ तुम्हहं होतउ आगदो । तुम्हहं केरउं धणु ॥ [भ्यसाम्भ्यां तुम्हहं] भ्यस्-आम् तृतीया भ्याम् । तुम्हहं प्रथमा सि ।
[तुम्हहं होतउ आगदो] युष्मद् । भ्यस्प्र० । अनेन भ्यसा सह युष्मद् → तुम्हहं० । युष्मत् - युष्मभ्यं भवन् आगतः ।
[तुम्हहं केरउंधणु] युष्मद् । आम्प्र० । अनेन आमा सह युष्मद्→तुम्हहं०। युष्माकं सम्बन्धिनं धनमित्यर्थः ॥३७३।।
तुम्हासु सुपा ॥ ८।४।३७४ ॥ अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हासु ठिअं ॥ [तुम्हासु सुपा] तुम्हासु प्रथमा सि । सुप् तृतीया टा । [ तुम्हासु ठिअं] युष्मद् । सप्तमी सुप् । अनेन सुपा सह युष्मद् → तुम्हासु० । स्थितमित्यर्थः ॥३७४।।
सावस्मदो हउं ॥ ८।४।३७५ ॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ॥ तसु हउं कलि-जुगि दुल्लहहो ॥ [सावस्मदो हउं] सि सप्तमी ङि । अस्मद षष्ठी ङस् । हउं प्रथमा सि । [तसु हउं कलि-जुगि दुल्लहहो...] पूर्वं लिखितम् । [४।३३८-१] । अस्मद् । प्रथमा सि । अनेन अस्मद् → हउं० । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् हडं ॥३७५॥
जस्-शसोरम्हे-अम्हइं ॥ ८।४।३७६ ॥ अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकं अम्हे-अम्हइं इत्यादेशौ भवतः ॥