________________
५६८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अस्यार्थः- हे वरतरो ! त्वया मुक्तानामपि पत्राणां पत्रत्वं न विनश्यति । तव पुनश्छाया कथमपि यदि भवेत् ततः - तर्हि तैः पत्रैरेव नान्यथेत्यर्थः ।
[पइं] युष्मद् । तृतीया टा । अनेन टा-सह युष्मद् → पइं० । [महु हिअउं तइं ताएँ...........]
अस्यार्थः- काचिन्नायिका अन्यासक्तं पति वक्ति-हे प्रिय ! मम हृदयं त्वया गृहीतमिति शेषः । तया त्वं गृहीतः । सापि अन्येन विभिद्यते । हे प्रिय ! अहं किं करोमि ? त्वं किं करोषि ? मत्स्येन मत्स्यो गिल्यते इत्यर्थः ।
[तइं] युष्मद् । तृतीया टा । अनेन टा-सह युष्मद् → तइं० । [पई मई बेहिं वि रण-गयहिं...
बाह वि रण-गयहि...................] अस्यार्थः- त्वयि मयि द्वयोरपि रणगतयोः को जयश्रियं तर्कयति अभिलषति ? को यमगृहिणी केशैर्गृहीत्वा सुखं यथा स्यात्तथा तिष्ठति ? त्वं भण-कथय इत्यर्थः ।
[पई] युष्मद् । सप्तमी ङि । अनेन ङिना सह युष्मद् → पइं० । [पई मेल्लंतिहे महु मरणु.......]
अस्यार्थः- स्त्री कथयति । त्वां मुञ्चत्या मम मरणं, मां मुञ्चतस्तव मरणम् । दृष्टान्तः- यथा सारस: पक्षी । यस्य यो दूरे सोऽपि कृतान्तस्य साध्यो भवति - मरणं प्राप्नोतीत्यर्थः । [पइं] युष्मद् । द्वितीया अम् । अनेन अमा सह युष्मद् → पइं० ॥३७०॥
भिसा तुम्हेहिं ॥ ८।४।३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति । तुम्हेहिं अम्हेहिं जं किअउं दिट्ठउं बहुअ-जणेण । तं तेवड्डउ समर-भरु निज्जिउ एक्क-खणेण ॥१॥ [भिसा तुम्हेहिं] भिस् तृतीया टा । तुम्हेहिं प्रथमा सि । [ तुम्हेहिं अम्हेहिं जं किअउं...............]
अस्यार्थः- युष्माभिरस्माभिर्यत् कृतं तद् बहुकजनेन दृष्टम् । यत् किं कृतं ? तदाह - तत्तावन्मानः(त्र) समरभरः एकक्षणेन निर्जित इत्यर्थः । [ तुम्हेहिं] युष्मद् । तृतीया भिस् । अनेन भिसा सह युष्मद् → तुम्हेर्हिः ॥३७१।।
डसि-डस्भ्यां तउ-तुज्झु-तुध्र ॥ ८।४।३७२ ॥ अपभ्रंशे युष्मदो ङसि-ङस्भ्यां सह तउ-तुज्झु-तुध्र इत्येते त्रय आदेशा भवन्ति ।। ङसिना-तउ होतउ आगदो । तुज्झु होतउ आगदो । तुध्र होतउ आगदो ।
१. H. P. "विवरतरु" वयो विहङ्गमास्तैर्वरः विवरः, एवंविधो वृक्षः, तस्य सम्बोधने हे विवरतरो ! अथवा हे वरतरो ! । २. म. साऽप्यन्येनापि नट्यते । M. साप्यन्येन विनाट्यते । N. साप्यन्येन व्याकुलीक्रियते ।