________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५६७
[भमर ! म रुणझुणि रण्णडइ............]
अस्यार्थः- हे भ्रमर ! त्वमरण्ये म रुणु -मा रुणझुणि - शब्दं मा कुरु । तां दिशं विलोक्य मा रुदिहि । पुनः सा मालती देशान्तरिता, यस्याः वियोगे त्वं म्रियसे इत्यर्थः । [तुहं] युष्मद् । प्रथमा सि । अनेन युष्मद् → तुहुं० । 'स्यम्-जस्०' (४।३४४) सिलुक् तुहुं ॥३६८॥
जस्-शसोस्तुम्हे-तुम्हइं ॥ ८।४।३६९ ॥ अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः ॥ तुम्हे तुम्हइं जाणह ॥ तुम्हे तुम्हई पेच्छह ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। [जस्-शसोस्तुम्हे-तुम्हइं] जस्-शस् षष्ठी ओस् । तुम्हे-तुम्हई प्रथमा सि ।
[ तुम्हे तुम्हइं जाणह] यूयं जानीथ । युष्मद् । प्रथमा जस् । अनेन युष्मद् → तुम्हे० → तुम्हइं० । 'स्यम्-जस्शसां लुक्' (४।३४४) जस्लुक् तुम्हे तुम्हई ।
[तुम्हे तुम्हइं पेच्छंह] युष्मद् । द्वितीया शस् । अनेन युष्मद् → तुम्हे० → तुम्हइं० । 'स्यम्-जस्-शसां लुक् (४।३४४) शस्लुक् तुम्हे तुम्हइं ॥३६९॥
टा-यमा पई - तइं ॥ ८।४।३७० ॥ अपभ्रंशे युष्मदः टा-ङि-अम् इत्येतैः सह पइं-तई इत्यादेशौ भवतः ॥ ॥ टा ॥ पई मुक्काहं वि वर-तरु ! फिट्टइ पत्तत्तणं न पत्ताणं ।
तुह पुणु छाया जइ होज्ज कह वि ता तेहिं पत्तेहिं ॥१॥ महु हिअउं तई ताएँ तुहं स वि अन्ने विनडिज्जइ ।
पिअ ! काई करउं हउं काई तुहं मच्छे मच्छु गिलिज्जइ ॥२॥ । डिना ॥ पड़ मई बेहिं वि रण-गयहिं को जयसिरि तक्केइ ? |
केसहिं लेप्पिणु जम-घरिणि भण सुह को थक्केइ ? ॥३॥ एवं तइं ॥ ॥ अमा ॥ पइं मेल्लंतिहे महु मरणु मई मेल्लंतहो तुज्झु ।
सारसं ! जसु जो वेग्गला सो वि कृदंतहो सज्झु ॥४॥ एवं तई ॥ [टा-ड्यमा पई - तइं ] टा-ङि-अम् तृतीया टा । पई - तई प्रथमा सि । [पई मुक्काहं वि वर-तरु !...........]
१. सर्वमुद्रितेषु पेच्छइ । २. सा तुज्झ वल्लहा तं सि मज्झ वेसो सि तीअ तुज्झ अहं । बालअ ! फुडं भणामो पेम्मं किल बहुविआरं ति ॥ [गा० स० - २।२६] ३. P. वि नडिज्जइ-अपि पीड्यते । ४. P. सारसु-सालसः । सह आलसेन विद्यते यः सः । सा तव वल्लभा त्वमसि मम द्वेष्योऽसि तस्यास्तवाहम् । बालक ! स्फुटं भणामः प्रेम किल बहुविकारमिति ।।