________________
५६६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
पक्षेजइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल ! मेह ! ॥५॥ [किमः काइं-कवणौ वा] किम् षष्ठी ङस् । काई-कवण प्रथमा औ । वा प्रथमा सि । [जइ न सु आवइ दूइ ! ..........]
अस्यार्थः- हे दूति ! सः यदि गृहं नायाति-नागच्छति तर्हि तव अधोमुखं कथम् ? । हे सखिके ! यस्तव वचनं खण्डयति सो मम प्रियो न भवतीत्यर्थः ।
[काई] किम् । प्रथमा सि । अनेन किम् → काइं० । 'स्यम्-जस्-शसां लुक् (४३४४) सिलुक् काई । [काई न दूरे देक्खइ ] पूर्व लिखितम् । [४।३४९-१] [फोडेंति जे हियडउं............] पूर्वं लिखितम् । [४/३५०-२] [कवण ] किम् । प्रथमा सि । अनेन किम्० → कवण । [सुपुरिस कंगुहे अणुहरहि.............]
अस्यार्थ:- सुपुरुषाः कङ्गोर्धान्यस्य अनुहरन्ते-सदृशा भवन्ति । भण कथय । केन कार्येण ? उच्यते - यथा यथा वृद्धत्वं लभन्ते तथा तथा शिरसा नमन्तीत्यर्थः ।
[कवणेण] किम् । तृतीया टा । अनेन किम् → कवण । 'टा-आमोर्णः' (३६) टा० →ण । 'टाणशस्येत्' (३।१४) ण. →णे० कवणेण ।
[जइ ससणेही तो मुइ.......]
कस्याश्चिद् भर्ता देशान्तरं गतोऽस्ति, स मेघं प्रत्याह-सा स्त्री यदि सस्नेहा भविष्यति तर्हि मृता भविष्यति, मम विरहात् । अथ जीवति तदा निःस्नेहा । सस्नेह-निःस्नेहलक्षणप्रकाराभ्यां प्रिया गता । तर्हि हे खल ! हे दुर्जनमेघ ! त्वं किं गर्जसीत्यर्थः । [किं] किम् । प्रथमा सि । 'अन्त्यव्यः' (१।११) सिलुक् । 'मोऽनु०' (१।२३) अनुस्वारः किं ॥३६७।।
युष्मदः सौ तुहुं ॥ ८।४।३६८ ॥ अपभ्रंशे युष्मदः सौ परे तुहं इत्यादेशो भवति ।। 'भमर ! म रुणझुणि रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसंतरिअ जसु तुहुँ मेरहि विओइ ॥१॥ [युष्मदः सौ तुहं] युष्मद् षष्ठी ङस् । सि सप्तमी ङि । तुहं प्रथमा सि ।
१. मालइविरहे रे तरुणभसल ! मा रुवसु निब्भरुक्कंठं । वल्लहविओयदुक्खं मरणेण विणा न वीसरइ ॥
[व० ल० - इंदिदिरवज्जा-२४१-६] मालतीविरहे रे तरुणभ्रमर ! मा रोदीनिर्भरोत्कण्ठनम् । वल्लभवियोगदुःखं मरणेन विना न विस्मर्यते ॥ २. P. मरइ ।