________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५६५
अस्यार्थः- अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरमिति शेषः । यदि आच्छाद्यते-स्थाप्यते ततः कुथ्यति । अथ दह्यते ततः क्षारो भस्म स्यादित्यर्थः ।
[आयहो] इदम् । षष्ठी ङस् । अनेन इदम् → आय० । 'ङसः सु-हो-स्सवः' (४।३३८) ङस्० → हो० आयहो ॥३६५॥
सर्वस्य साहो वा ॥ ८।४।३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ।
साहु वि लोउ तडप्फडइ वड्डत्तणहो तणेण । वड्डप्पणु पर पाविअइ हत्थे मोक्कलडेण ॥१॥ पक्षे-सव्वु वि ॥ [सर्वस्य साहो वा] सर्व षष्ठी ङस् । साह प्रथमा सि । वा प्रथमा सि । [साहु वि लोउ तडफडइ................]
अस्यार्थः- सर्वोऽपि लोक उत्ताम्यति - आकुलीभवति । किमर्थम् ? बृहत्त्वस्याऽर्थे । परं बृहत्त्वं हस्तेन मुत्कलेन - मुक्तेन प्राप्यते इत्यर्थः । को भाव: ? जनैर्महत्त्वं तदा प्राप्यते यदा दानादिगुणाः स्युरिति भावः ।।
[साहु] सर्व । प्रथमा सि । अनेन सर्वस्य साह० । 'सौ पुंस्योद्वा' (४।३३२) ('स्यमोर०' (४।३३१)) ह० → हु० । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् साहु पक्षे
[सव्वु ] सर्व । प्रथमा सि । 'सर्वत्र ल.' (२२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-व० → व्व० । 'सौ पुंस्योद्वा' (४।३३२) ('स्यमो०' (४।३३१)) व्व० → व्बु० । 'स्यम्-जस्-शसां लुक्' (४।३४४) सिलुक् सव्वु ॥३६६॥
किमः काइं-कवणौ वा ॥ ८।४।३६७ ॥ अपभ्रंशे किमः स्थाने काई - कवण इत्यादेशौ वा भवतः ।। जई न सु आवइ दूइ ! घरु काई अहोमुहु तुज्झु ? | वयणु जु खंडइ तउ सहिए ! सो पिउ होइ न मज्झु ॥१॥ काई न दूरे देक्खइ ॥२॥ [४।३४९-१] फोडेंति जे हियडर्ड अप्पणउं ताहं पराई कवण घण? ॥३॥ [४।३५०-२] । सुपुरिस कंगुहे अणुहरहिं भण कज्जें कवणेण । जिव जिव वड्डत्तणु लहहिं तिव तिवं नवहिँ सिरेण ॥४॥
१. I. N. उत्तभ्नाति । २. सयलु वि को वि तडप्फडइ सिद्धत्तणहु तणेण । सिद्धत्तणु परिपाविअइ चित्तहं णिम्मलएण ॥ [दोहापाहुड - ८८] ३. I. J. N. प्रस्पन्दते । ४. जइ सो न एइ गेहं ता दूइ अहोमुही तुमं कीस । सो होही मज्झ पिओ जो तुज्झ न खंडए वयणं ॥
[व० ल० - दूईवज्जा -४१७१५] यदि स नैति गेहं तद् इति अधोमुखी त्वं कस्मात् । स भविष्यति मम प्रियो यस्तव न खण्डयति वचनं (वदनम्) । ५. P. दूरु - दूरम् ।