________________
५६४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अस्यार्थः - काचित् स्त्री पथिकं प्रत्याह-यद् बृहंति गृहाणि पृच्छत, ततो बृहंति अमूनि प्रत्यक्षोपलक्षमाणानि वर्तन्ते । अथवा दानाद्यभिलाषीति शेषः । तदा कुटीरके विह्वलितजनाभ्युद्धरणं पीडितजनाभ्युद्धरणं कान्तं पश्य इत्यर्थः ।
[ओइ] अदस् । प्रथमा जस् - द्वितीया शस् वा । अनेन अदस्० → ओइ० । 'स्यम्-जस्-शसां लुक्' (४।३४४) जस्-शसोलुंक् ओइ ॥३६४॥
इदम आयः ॥ ८।४।३६५ ॥ अपभ्रंशे इदमशब्दस्य स्यादौ आय इत्यादेशो भवति ।। आयई लोअहो लोअणइं जाई(इं) सरई न भंति । अप्पिए दिइ मउलिअहिं पिए दिट्ठइ विहसंति ॥१॥ सोसउ म सोसउ च्चिअ उसही वडवानलस्स किं तेण? । जं जलइ जले जलणो आएण वि किं न पज्जत्तं ? ॥२॥
आयहो दव-कलेवरहो जं वाहिउ तं सारु । जइ उट्ठब्भइ तो कुहइ अह डज्झइ तो छारु ॥३॥ [इदम आयः] इदम् षष्ठी ङस् । आय प्रथमा सि । [आयइं लोअहो लोअणई......]
अस्यार्थः- लोकस्य इमानि लोचनानि जातिं स्मरन्ति न भ्रान्तिन संदेहः । अप्रिये दृष्टे सति मुकुलन्ति । प्रिये दृष्टे सति विकसन्तीत्यर्थः ।
[आयइं] इदम् । प्रथमा जस् । अनेन इदम् → आय० । 'जस्-शस इ-ई-णयः सप्रा०' (३।२६) जस्० → इं० आयइं।
[सोसउ म सोसउ च्चिअ........
अस्यार्थः- च्चिअति निश्चये । उदधिः शुष्यतु मा शुष्यतु वा । तेन समुद्रशोषणेन वा वडवानलस्य किम् ? । यदिति क्रियाविशेषणम् । यज्जले ज्वलनो ज्वलति अनेन ज्वलनेन तस्य वडवानलस्य किं न पर्याप्तं ? - किं न सृतमित्यर्थः ।
[आएण] इदम् । तृतीया टा । 'टा-आमोर्णः' (३।६) टा० → ण० । अनेन इदम्० → आय० । 'टाण-शस्येत्' (३।१४) य० → ये० । 'क-ग-च-ज०' (१।१७७) यलुक् आएण ।
[आयहो दड्ड-कलेवरहो...........]
१. नयणाई नूण जाईसराई वियसंति वल्लहं दटुं । कमला इव रवि-कर-बोहियाई मउलेंति इयरम्मि ॥ [जु० जि० च० पद्य-३३] जाईसराई मन्ने इमाई नयणाई होति लोयस्स । वियसंति पिए दिढे अव्वो मउलंति वेसम्मि || [गा० र०] अइपसण्णु मुहु होइ संभासणु पडिवज्जइ । पुव्वभवंतरणेहु जणदिट्ठिएँ जाणिज्जइ ॥
[म० पु० भाग:-१, सन्धिः -९, विभाग:-५, पङ्कि:- १३-१४] २. बलि किउ माणुस-जम्मडा देक्खंतहं पर सारु । जइ उट्ठभइ तो कुहइ अह डज्झइ तो छारु ॥ [प० प्र० - २२१४७] बलिः क्रियते मनुष्यजन्म पश्यतां परं सारम् । यदि अवष्टम्भते ततः कुथ(थ्य)ति अथ दह्यते तर्हि क्षारः ॥ ३. .. इमानि लोकाः ! लोचनानि जातिस्मराणि न भ्रान्तिः । अप्रिये दृष्टके मुकुलयन्ति प्रिये दृष्टके विहसन्ति ।