________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५६३
एतदः स्त्री-पुं-क्लीबे एह एहो एहु ॥ ८।४।३६२ ॥ अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्यथासंख्यं एह-एहो-एहु इत्यादेशा भवन्ति ॥ एह कुमारी एहो नरु एहु मणोरह-ठाणु । एहउं वढ ! चितंताहं पच्छइ होइ विहाणु ॥१॥ [एतदः स्त्री-पुं-क्लीबे] एतद् षष्ठी ङस् । स्त्री-पुं-क्लीब सप्तमी ङि । [ एह-एहो-एहु] एह-एहो-एहु प्रथमा सि । [ एह कुमारी ] एषा कुमारी । [एहो नरु ] एषो नरः । [एहु मणोरह-ठाणु] एतन्मनोरथस्थानम् । [एहउं वढ ! चिंतंताहं पच्छइ होइ विहाणु] ईदृशं चिन्तयतां वढानां-मूर्खाणां पश्चाद्विभातं भवतीत्यर्थः ।
[एह-एहो-एहु] एतद् । प्रथमा सि -द्वि० अम् । अनेन एतद् → एह-एहो-एहु० त्रय आदेशाः । 'स्यम्-जस्शसां लुक् (४।३४४) सि-अम्लुक् एह-एहो-एहु ॥३६२॥
एइर्जस्-शसोः ॥ ८।४।३६३ ॥ अपभ्रंशे एतदो जस्-शसोः परयोः एइ इत्यादेशो भवति । एइ ति घोडा एह थलि० [४३३०-४] ॥१॥ एइ पेच्छ ॥२॥ [एइर्जस्-शसोः] एइ प्रथमा सि । जस्-शस् सप्तमी ओस् । [एइ ति घोडा एह थलि......] पूर्वं लिखितम् । [४।३३०-४] । [एइ पेच्छ] एतद् । द्वितीया शस् । अनेन एतद् → एइ० । 'स्यम्-जस्०' (४।३४४) शस्लुक् एइ पेच्छ ॥३६३।।
अदस ओइ ॥ ८।४।३६४ ॥ अपभ्रंशे अदसः स्थाने जस्-शसोः परयोः ओइ इत्यादेशो भवति ॥ जई पुच्छह घर वड्डाइं तो वड्डा घर ओइ । विहलिअ-जण-अब्भुद्धरणु कंतु कुडीरइ जोइ ॥१|| अमूनि वर्तन्ते पृच्छ वा ॥ [अदस ओइ] अदस् षष्ठी ङस् । ओइ प्रथमा सि ।
[जइ पुच्छह घर वड्डाई...........] १. C. पोट्टे भरन्ति सउणा वि माउआ अप्पणो अणुव्विग्गा । विहलुद्धरणसहावा हुवन्ति जइ के वि सप्पुरिसा ॥ [गा० स०-३।८५] उदरं भरन्ति शकुना अपि हे मातरात्मनोऽनुद्विग्नाः । विह्वलोद्धरणस्वभावा भवन्ति यदि केऽपि सत्पुरुषाः ॥ २. P. पृच्छथ ।