________________
५७०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अम्हे थोवा रिउ बहुअ कायर एवं भणंति । मुद्धि ! निहालहि गयण-यलु कइ जण जोण्ह करंति ? ॥१॥ अम्बणु लाइवि जे गया पहिअ पराया के वि। अर्वस न सुअहिं सुहच्छिअहिं जिव अम्हई तिव ते वि ॥२॥ अम्हे देक्खइ । अम्हइं देक्खइ ॥३॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः । [जस्-शसोरम्हे अम्हई ] जस्-शस् षष्ठी ओस् । अम्हे अम्हइं प्रथमा सि । [अम्हे थोवा रिउ बहुअ.............]
अस्यार्थ:- कातरा एवं भणन्ति - वयं स्तोकाः, रिपवस्तु बहुकाः । हे मुग्धे ! गगनतलं निभालय-पश्य, कति जना ज्योत्स्नां कुर्वन्ति ? एकश्चन्द्र एवेत्यर्थः ।
[अम्हे ] अस्मद् । प्रथमा जस् । अनेन अस्मद् → अम्हे० । 'स्यम्-जस्-शसां लुक् (४।३४४) जस्लुक् अम्हे । [अम्बणु लाइवि जे गया..........]
अस्यार्थ:- ये केऽपि परकीयाः पथिका आम्लत्वं स्नेहं लैंगयित्वा गताः, तेऽपि अवश्यं-निश्चितं सुखासिकायां न स्वपन्ति, यथा वयं तथा तेऽपि इत्यर्थः ।
[अम्हइं] अस्मद् । प्रथमा जस् । अनेन अस्मद् → अम्हइं० । 'स्यम्-जस्-शसां लुक् (४।३४४) जस्लुक् अम्हई।
[अम्हे देक्खइ, अम्हई देक्खइ] अस्मद् २ । द्वितीया शस् । अनेन अस्मद् → अम्हे० - अम्हइं० । 'स्यम्-जस्शसां लुक्' (४।३४४) शस्लुक् अम्हे अम्हइं । अस्मान् पश्यतीत्यर्थः ॥३७६।।
___टा-ङ्यमा मइं ॥ ८।४।३७७ ॥ अपभ्रंशे अस्मदः टा-ङि-अम् इत्येतैः सह मई इत्यादेशो भवति ॥ ॥ टा ॥ मई जाणिउं पिअ ! विरहिअहं क-वि धर होइ विआलि ।
णवर मिअंकु वि तिह तवइ जिह दिणयरु खय-गालि ॥१॥ ॥ ङिना ॥ पइं मई बेहिं वि रण-गयहिं । [४।३७०-३] ॥२॥ ॥ अमा ॥ मई मेल्लंतहो तुज्झु । [४।३७०-४] ॥३॥ [टा-यमा मइं] टा-ङि-अम् तृतीया टा । मई प्रथमा सि । [मई जाणिउं पिअ ! विरहिअहं....
अस्यार्थः- हे प्रिय ! मया ज्ञातं, विरहितानां पुरुषाणां कापि धरा अवलम्बनं भवति । कदा ? विकाले-संध्याकाले णवरं-केवलं । यदा(था) दिनकरः क्षयकाले-कल्पान्तकाले गतः- प्राप्तस्तपति तदा(था) मृगाङ्कोऽपि तपतीत्यर्थः । - [मइं] अस्मद् । तृतीया टा । अनेन टाप्रत्ययेन सह अस्मद् → मई० ।
१. अम्हे थोडा रिउ घणा इय कायर चिंतंति । सुह ! निहालउ गयणउलु के उज्जोउ करंति ॥ [कु० प्र० -१] २. P. अवसु । ३. M. N. लागयित्वा । ४. P. विरहितानां स्त्रीणाम् । धर-धरावत् आधारः । विआलि - विरुद्धकाले आपदि ।