________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
अस्यार्थ:- हे हृदय ! त्वं त्रट् इति कृत्वा स्फुट । कालक्षेपेण-कालविलम्बेन किम् ? । अहं पश्यामि हतविधिस्त्वया विना दुःखशतानि कुत्र स्थापयतीत्यर्थः । [कहिं] किम् । सप्तमी ङि । 'किमः कस्त्र-तसोश्च' (३७१) किम् →क० । अनेन ङि० → हिं० कहिं ॥३५७॥
यत्तत्किम्भ्यो डसो डासुर्नवा ॥ ८।४।३५८ ॥ अपभ्रंशे यत्तत्किम् इत्येतेभ्योऽकारान्तेभ्य: परस्य ङसो डासु इत्यादेशो वा भवति ॥ कंतु महारउ हलि ! सहिए ! निच्छई(एं) रूसइ जासु । अत्थेहिं सत्थेहिं हत्थेहिं वि ठाउ वि फेडइ तासु ॥१॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इठु । दोण्णि वि अवसरि निवडिअइ तिण-सम गणइ विसि? ॥२॥ [यत्तत्किम्भ्यो डसो डासुर्नवा ] यद्-तद्-किम् पञ्चमी भ्यस् । ङस् षष्ठी ङस् । डासु प्रथमा सि । नवा प्रथमा सि । [कंतु महारउ हलि ! सहिए !........]
अस्यार्थ:- हे हले ! हे सखिके ! मदीयः कान्तो निश्चयेन यस्य रुष्यति तस्य स्थानं स्फेटयति । कैः? अस्त्रैः शस्त्रैः हस्तैरपि।
[जासु] यद् । षष्ठी ङस् । 'आदेर्यो जः' (११२४५) यस्य जः । अनेन ङस्० → डासु० → आसु० इति । 'डित्यन्त्य०' (२।१।११४) अद्लुक् । 'लोकात्' (१।१।३) जासु ।
[तासु] तद् । षष्ठी ङस् । अनेन ङस्० → डासु० → आसु० इति । 'डित्यन्त्य०' (२।१।११४) अद्लुक् । 'लोकात्' (१।१।३) तासु ।
[जीविउ कासु न वल्लहउं...........]
अस्यार्थः- जीवितं कस्य वल्लभं न स्यात् ? । धनं पुनः कस्येष्टं न स्यात् ? । विशिष्टो मनुजोऽवसरे निपतिते द्वेऽपि जीवित-धने तृण-समे गणयतीत्यर्थः ।
[कासु] किम् । षष्ठी ङस् । अनेन ङस्० → डासु० → आसु० इति । 'डित्यन्त्य०' (२२१२११४) इम्लोपः । 'लोकात्' (१।१।३) कासु ॥३५८॥
स्त्रियां डहे ॥८।४।३५९ ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किम्भ्यः परस्य ङसो डहे इत्यादेशो वा भवति ॥ जहे केरउ ॥ तहे केरउ ॥ कहे केरउ । [स्त्रियां डहे] स्त्री सप्तमी ङि । डहे प्रथमा सि ।
[जहे केरउ] यद् । षष्ठी ङस् । 'आर्यो जः' (१२२४५) यस्य जः । अनेन ङस् → डहे. → अहे० इति । 'डित्यन्त्य०' (२।१।११४) अद्लोपः । 'लोकात्' (१२१॥३) जहे। सम्बन्धिन् । शीघ्रादित्वात् केर इति । 'अ-डड-डुल्ला:०' (४|४२९) अप्र० । 'स्वराणां स्वराः प्रायोऽपभ्रंशे' (४।३२९) अ० → उ० केरउ । यस्याः सम्बन्धी इत्यर्थः । १. H. M. N. अत्थिहिं सस्थिहिं हत्थिहिं । । अत्थिहि सत्थिहि हत्थिहि । २. I. अस्त्रैः-अथैः, शस्त्रैः-शास्त्रैः, हस्तै:-हस्तिभिः । P. अथैः-द्रव्यैः ।