________________
५६०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
डेहि ॥ ८।४।३५७ ॥ अपभ्रंशे सर्वादेरकारान्तात् परस्य : सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥ जहिं कप्पिज्जइ सरेण सरु छिज्जइ खग्गेण खग्गु । .. तहिं तेहइ भेड-घड-निवहि कंतु पयासइ मग्गु ॥१॥ एक्कहिं अक्खिहिं सावणु अन्नहि भद्दवउ, माहउ महिअल-सत्थरि गंड-त्थलि सरउ । अंगिहिं गिम्हु सुहच्छी-तिल-वणि मग्गसिरु, तहे मुद्धहे मुह-पंकइ आवासिउ सिसिरु ॥२॥ युग्मम् ॥ हिअडा ! फुट्टि तड - त्ति करि कालक्खेवें काई । देक्खउं हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाइं ॥३॥ [ डेहि ] ङि षष्ठी ङस् । हिं प्रथमा सि । [जहिं कपिज्जइ सरेण......]
अस्यार्थ:- यस्मिन् शरेण शरः कृत्यते-कल्प्यते, यस्मिन् खड्गेन खड्गः छिद्यते, तस्मिन् - तादृशे भट-घटा-निवहे कान्तो मार्गः(ग) प्रकाशयतीत्यर्थः ।
[जहि] यद् । सप्तमी ङि । 'आदेर्यो जः' (१।२४५) यस्य जः । 'अन्त्यव्य०' (१।११) द्लुक् । अनेन ङि० → हिं० जहिं।
[तर्हि ] तद् । सप्तमी ङि । 'अन्त्यव्यः' (१।११) द्लुक् । अनेन ङि० → हिं० तर्हि । [एक्कहिं अक्खिहिं सावणु......]
अनयोरर्थः - तस्या मुग्धाया एकस्मिन् अक्ष्णि श्रावणः । अन्यस्मिन् अक्षिण भाद्रपदः । को भाव: ? यथा एतौ द्वौ मासौ श्रावण-भाद्रपदौ तथा अक्षिद्वयमप्यश्रुजलश्रावित्वात् मासद्वयतुल्यं । महीतलस्रस्तरे माधवो वसन्तः पल्लवमयत्वात् । गण्डस्थले शरत् तस्याः काम(श)कुसुमादिना पाण्डुत्वात् । अङ्गेषु ग्रीष्मः तापबहुलत्वात् । सुखासिकातिलवने मार्गशीर्षः । यथा मार्गशीर्षे तिलवनानामुच्छेदः स्यात् तथा सुखावस्थानस्योच्छेदः । मुखपङ्कजे शिशिरः आवासितः । यथा शिशिरे पङ्कजानां म्लानत्वं तथा मुखपङ्कजस्यापि स्त्रीणां वियोगावस्थायामेतानि चिह्नानि स्युः तेनेत्युक्तम् ।
[एक्कहि] एक । सप्तमी ङि । अनेन ङि० → हिं० । 'सेवादौ वा' (२।९९) क० → क० एक्कहिं ।
[अक्खिहिं] अक्षि । सप्तमी ङि । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वखस्य कः । अनेन डि० → हिं० अक्खिहिं ।
- [अन्नहिं] अन्यत् । सप्तमी ङि । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२१८९) नस्य द्वित्वम् । 'अन्त्यव्य०' (११११) त्लुक् । अनेन ङि० → हिं० अन्नहिं ।
[हिअडा ! फुट्टि तड-त्ति......] १. 2. भड = भटानां, घडनिवहि = वृक्षमूलसमूहे ।