________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[कान्तस्याऽत उं स्यमोः ] कान्त षष्ठी ङस् । अत् षष्ठी ङस् । उं प्रथमा सि । स्यम् षष्ठी ओस् । [अन्नु जु तुच्छउं तहे धणहे....] पूर्वलिखितो दूहकः । तुच्छक । प्रथमा सि । अनेन कस्य कुं । 'क-ग-च-ज०' (१।१७७) क्लुक् तुच्छउं ।। [भग्गउं देक्खिवि निअय-बलु.........]
अस्य दूहकस्य अर्थ:- हे सखीति गम्यते । हे सखि ! यथा द्वितीयादितिथौ शशिरेखा-चन्द्ररेखा प्रकटीभवति तथा प्रियस्य करे करवालं-खड्गं उन्मील्यते - प्रकटीभवति । किंकृत्वा ? निजकं बलं भग्नं दृष्ट्वा परस्य तु बलं प्रसृतकं दृष्ट्वेत्यर्थः ।
[भग्गउं] भग्नक । द्वितीया अम् । अनेन कस्य कुं । 'क-ग-च-ज०' (१२१७७) क्लुक् । 'अधो म-न-याम्' (२।७८) नलुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् भग्गउं ॥३५४।।
सर्वादेर्डसेही ॥ ८।४।३५५ ॥ अपभ्रंशे सर्वादेरकारान्तात् परस्य डसेः हां इत्यादेशो भवति ॥ जहां होतउ आगदो ॥ तहां होतउ आगदो ॥ कहां होतउ आगदो । [सर्वादेर्डसेहीं ] सर्वादि पञ्चमी ङसि । ङसि षष्ठी ङस् । हां प्रथमा सि ।
[जहां होतउ आगदो] यतो भवान् आगतः । यद् । पञ्चमी ङसि । 'अन्त्यव्यञ्जनस्य' (१।११) द्लुक् । 'आर्यो जः' (१।२४५) य० → ज० । अनेन ङसि० → हां० जहां । __ [तहां होतउ आगदो] ततो भवान् आगतः ॥ तद् । पञ्चमी ङसि । 'अन्त्यव्यञ्जनस्य' (१।११) लुक् । अनेन ङसि० → हां० तहां ।
[कहां होतउ आगदो] कुतो भवान् आगतः ॥ किम् । पञ्चमी उसि । 'किमः कस्त्र-तसोश्च' (३७१) किम् → क० । अनेन ङसि० → हां कहां ॥३५५।।
किमो डिहे वा ॥८॥४॥३५६ ॥ अपभ्रंशे किमोऽकारान्तात् परस्य ङसेर्डिहे इत्यादेशो वा भवति ॥ जइ तहो तुद्देउ नेहडा मई सहुं न वि तिल-तार ! । तं किहे वंकि(के)हिं लोअणेहिं जोइज्जङ सय-वार ॥१॥ [किमो डिहे वा] किम् पञ्चमी ङसि । डिहे प्रथमा सि । वा प्रथमा सि । [जइ तहो तुट्टउ नेहडा...........]
अस्यार्थः - हे तिल-तार ! तिलवत् स्निग्धा तारा-कनीनिका यस्य स, तस्य सम्बोधनम् । यदि तव स्नेहो मया सह नापि त्रुटितस्तत्कथमहं त्वया वक्राभ्यां लोचनाभ्यां शत-वारं विलोक्ये इत्यर्थः ॥
[किहे] किम् । पञ्चमी ङसि । अनेन ङसि० → डिहे० → इहे० । 'डित्यन्त्यस्वरादेः' (२२१२११४) इम्लुक् । 'लोकात्' (१२१२३) किहे ॥३५६॥ १. । तुट्टिउ । २. N. यदि तस्याः स्नेहः त्रुटितः, यदि मया सह तिल-तारा (?) अपि न, (तर्हि) कस्मात् (अहम्) (तस्याः ) वक्राभ्यां लोचनाभ्यां शतवारं दृश्ये ? |