________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अन्नु जु तुच्छउं तहे धणहे तं अक्खणहं न जाइ । कटरि र्थणंतरु मुद्धडहे जं(जें) मेणु विच्चि न माइ ॥१॥ युग्मम् ॥ ॥ डसेः ॥ 'फोडेंति जे हियडउं अप्पणउं ताहं पराई कवण घण? ।
रक्खेज्जहु लोअहो ! अप्पणा बालहे जाया विसम थण ॥२॥ [ङस्-डस्योh ] डस्-ङसि षष्ठी ओस् । हे प्रथमा सि । [तुच्छ-मज्झहे तुच्छ जंपिरहे........]
अनयोरर्थ:- तुच्छ-रागेति । दूतीकृतं नायकस्याऽऽमन्त्रणम् । हे तुच्छ-राग ! तस्या नायिकाया अन्यद् यत् तुच्छं तदाख्यातुं न याति । किम्भूताया नायिकायाः ? तुच्छ-मध्यायाः । पुनः किं०? तुच्छ-जल्पनशीलायाः । पुनः किं० ? तुच्छाच्छ-रोमावल्याः । पुनः किं०? तुच्छतर-हासायाः । पुनः किं० ? प्रियवचनमलभमानायाः । पुनः किं० ? तुच्छकाय-मन्मथ-निवासायाः । तुच्छकाये मन्मथनिवासो यस्याः सा । तुच्छकायत्वं भर्तुविरहात् । कटरीत्याश्चर्ये । येन कारणेन मुग्धायाः स्तनान्तरं मनोवम॑नि न माति स्तनयोरतिपीनत्वात् । अन्तरस्य अतितुच्छत्वं वर्णितमित्यर्थः ॥
अथ व्युत्पत्तिः - [तुच्छ-मज्झहे] तुच्छ-मध्या । षष्ठी ङस् । 'साध्वस-ध्य-ह्यां झः' (२।२६) ध्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य जः । 'स्यादौ दीर्घ-हस्वौ' (४।३३०) ज्झा० → ज्झ० । अनेन ङस्० → हे० तुच्छ-मज्झहे । ___ [तुच्छ-जंपिरहे] तुच्छपूर्व० 'कथण वाक्यप्रबन्धे' (१८८१) कथ । 'कथेर्वज्जर-पज्जरोप्पाल-पिसुण०' (४।२) कथ० → जम्प० । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० । 'शीलाद्यर्थस्येरः' (२।१४५) तृन्० → इर० । 'लुक्' (१२१०) अलुक् । 'लोकात्' (१।१३) जंपिर । 'आत्' (२।४।१८) आपप्र० → आ० । षष्ठी ङस् । 'स्यादौ दीर्घ-हस्वौ' (४।३३०) रा० → र० । अनेन ङस्० → हे तुच्छ-जंपिरहे।
[तुच्छच्छ-रोमावलिहे] तुच्छाच्छ-रोमावली । षष्ठी ङस् । 'हुस्वः संयोगे' (१८४) च्छा० → च्छ० । 'स्यादौ दीर्घहुस्वौ' (४३३०) ली० → लि० । अनेन डस्० → हे तुच्छच्छ-रोमावलिहे ।
[तुच्छयर-हासहे] तुच्छतर-हासा । षष्ठी ङस् । 'स्यादौ दीर्घ-हुस्वौ' (४।३३०) सा० → स० । अनेन ङस्० → हे० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१९८०) अ० → य० तुच्छयर-हासहे। __ [अलहंतिहे] नपूर्व० 'डुलभिंष् प्राप्तौ' (७८६) लभ् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१।१।३) लभ० । 'शत्रानशावे.' (५।२।२०) आनश्प्र० → आन० । 'न्त-माणौ' (३।१८०) ('शत्रानशः' (३।१८१) ) आनश्० → न्त० । 'अजातेः पुंसः' (३।३२) ङीप्र० । 'लुक् (१।१०) न्तस्य अलुक् । 'नबत्' (३।२।१२५) नञ् → अ० । 'स्यादौ दीर्घ-हुस्वौ' (४,३३०) न्ती० → न्ति । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । अनेन ङस् → हे. अलहंतिहे।
[तुच्छ-काय-वम्मह-निवासहे] तुच्छ-काय-मन्मथ-निवासा । षष्ठी ङस् । 'मन्मथे वः' (१।२४२) म० → व० । 'न्मो मः' (२०६१) न्म० → म० । 'अनादौ०' (२१८९) द्वित्वं-म० → म्म० । 'ख-घ-थ-ध-भाम्' (२१८७) थ० → ह० । 'स्यादौ दीर्घ-हस्वौ' (४।३३०) सा० → स० । अनेन ङस् → हे० तुच्छ-काय-वम्मह-निवासहे।
१. G. थणंतर । २. G. मण । ३. स्वकीयं हृदयं भित्त्वा, निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य, भेदने का कृपा तयोः ॥
[सु० र० भा० - तरुणीपृथगवयववर्णनाधिकारे - २६४] ४. P. अप्पणो ।