SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ वचनभेदान्न यथासंख्यम् ।। [स्त्रियां जस्-शसोरुदोत्] स्त्री सप्तमी ङि । जस्-शस् षष्ठी ओस् । उदोत् प्रथमा सि । [ अंगुलिउ जज्जरियाउ नहेण] पूर्ववत् । [४।३३३-१] । [सुंदर-सव्वंगाउ विलासिणीओ पेच्छंताण] अस्यार्थ:- सुन्दर-सर्वाङ्गा विलासिनीः पश्यतां नराणामित्यर्थः । [सुंदर-सव्वंगाउ] सुन्दर-सर्वाङ्ग । सुन्दराणि सर्वाङ्गानि यासां ताः । स्त्रियामाप् । द्वितीया शस् । अनेन शस्० → उ० । शेषं सुगमम् । सुंदर-सव्वंगाउ । [विलासिणीओ ] विलासिनी । द्वितीया शस् । अनेन शस्० → ओ० । 'नो णः' (१।२२८) नी० → णी० विलासिणीओ ॥३४८॥ ट ए॥८।४।३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥ निअ-मुह-करहिं वि मुद्ध कर' अंधारइ पडिपेक्खइ । ससि-मंडल-चंदिमए पुणु काई न दूरे देक्खइ ? ॥१॥ जहिं मरगय-कंतिए संवलिअं ॥२॥ [ट ए] टा षष्ठी ङस् । ए प्रथमा सि । [निअ-मुह-करहिं वि मुद्ध.............] अस्यार्थः- मुग्धा स्त्री निजमुखकरैरपि अन्धकारे करं-हस्तं प्रतिप्रेक्षते - पश्यति । शशिमण्डलचन्द्रिकया पुनः दूरे कथं न पश्यति ? इत्यर्थः । [ससि-मंडल-चंदिमए] शशि-मण्डल-चन्द्रिका । तृतीया टा । 'श-षोः सः' (१।२६०) शशि० → ससि० । 'द्रे रो नवा' (२८०) लुक् । ('वाधो रो लुक्' (४।३९८) लुक्) । 'चन्द्रिकायां मः' (१११८५) का? → मा० । 'स्वराणां स्वरा:०' (४।३२९) मा० → म० । अनेन टा → ए० ससि-मण्डल-चंदिमए ॥ [जहिं मरगय-कंतिए संवलिअं] अस्यार्थ:- यस्मिन् मरकत-कान्त्या संवलितं-मिश्रितम् । [मरगय-कंतिए] मरकत - कान्ति । तृतीया टा । 'मरकत-मदकले गः कन्दुके त्वादेः' (१११८२) कस्य गः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'हुस्वः संयोगे' (१९८४) का० → क०। अनेन टा० → ए० मरगय-कंतिए ॥३४९॥ __डस्-डस्योर्हे ॥ ८।४।३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस-ङसि इत्येतयोर्हे इत्यादेशो भवति ॥ ॥ ङसः ॥ तुच्छ-मज्झहे तुच्छ-जंपिरहे। तुच्छच्छ-रोमावलिहे तुच्छ-राय ! तुच्छयर-हासहे। पिय-वयणु अलहंतिहे तुच्छ काय-वम्मह-निवासहे ॥ १. I. N. किर = किल । GP. मुद्धकर = मुग्धकरा । २. GH. I. J. M. N. अलहंतिअहे ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy