________________
५५४
व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[ संगर-सएहिं जु वण्णिअइ........]
अस्यार्थः- हे सखीति गम्यते । तं मदीयं कान्तं पश्य । यः संग्रामशतेषु वर्ण्यते । किंकुर्वन्तं ? अतिमत्तानां त्यक्ताऽङ्कुशानां गजानां कुम्भान् दारयन्तमित्यर्थः ।
[गय ] गज । षष्ठी आम् । 'क-ग-च-ज०' (११७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० य० । अनेन आम्लुक् गय ॥ ३४५॥
आमन्त्र्ये जसो होः ॥ ८।४।३४६ ॥
अपभ्रंशे आमन्त्र्येऽर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति ॥ लोपाऽपवादः ॥
तरुणहो ! तरुणिहो ! मुणिउ मई करहु म अप्पो घाउ ॥ १ ॥
[ आमन्त्र्ये जसो हो: ] आमन्त्र्य सप्तमी ङि । जस् षष्ठी ङस् । हो प्रथमा सि ।
[ तरुणहो ! तरुणिहो ! मुणिउ मई करहु म अप्पहो घाउ ] ॥ द्विपदम् ॥ अस्यार्थः- हे तरुणाः ! हे तरुण्यः ! मया ज्ञातं, आत्मनो घातं मा कुरुत इत्यर्थः । [ तरुणहो ! ] तरुण । प्रथमा जस् । अनेन जस्० → हो० तरुणहो ! । [ तरुणिहो ! ] तरुणी । प्रथमा जस् । अनेन जस्०
हो० तरुणिहो ! ||३४६ ॥
भिस्पोर्हि || ८|४|३४७ ॥
अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥
॥ भिस् ॥ गुणहिं न संपय कित्ति पर..... [४|३३५] ।
॥ सुप् ॥ भाईरहि जिवँ भारइ मग्गेहिं तिहिं वि पट्ट ॥१॥
[ भिस्सुपोर्हि ] भिस्-सुप् षष्ठी ओस् । हिं प्रथमा सि ।
[ गुणहिं न संपय कित्ति पर......] पूर्वं लिखितम् । [४।३३५ ] ।
[ भाईरहि जिवँ भारइ मग्गेहिं तिहिं वि पयट्टइ ] ॥ गद्य ॥
अस्यार्थः- यथा भागीरथी गङ्गा त्रिषु मार्गेषु प्रवर्तते तथा भारत्यपि उत्पाद - व्यय - ध्रौव्यात्मकेषु त्रिषु मार्गेषु प्रवर्तते इत्यर्थः ।
[ मग्गेहिं] मार्ग । सप्तमी सुप् । 'ह्रस्वः संयोगे' (१।८४) मा० म० । 'सर्वत्र ल - व० ' (२७९) लुक् । 'अनादौ ०' (२२८९) गस्य द्वित्वम् । 'भिस् - भ्यस् - सुपि' (३।१५) एत्त्वं ग्गग्गे० । अनेन सुप्० हिं० मग्गेहिं ।
->>>
हिं० तिहिं ॥३४७॥
[तिर्हि ] त्रि । सप्तमी सुप् । 'सर्वत्र ल-व० ' (२७९) लुक् । अनेन सुप्० स्त्रियां जस्-शसोरुदोत् ॥ ८।४।३४८ ॥
अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः ॥ लोपाऽपवादौ ॥
॥ जसः ॥ अंगुलिउ जज्जरियाउ नहेण ॥१॥
॥ शसः ॥ सुंदर- सव्वंगाउ विलासिणीओ पेच्छंताण ||२||