________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे।
[तरुहुं] तरु । पञ्चमी भ्यस् । अनेन भ्यस्० → हुं० तरुहुं ।
[सामिहुं] स्वामिन् । पञ्चमी भ्यस् । 'अन्त्यव्यञ्जनस्य' (१।११) नलुक् । 'सर्वत्र ल-व०' (२२७९) व्लुक् । अनेन भ्यस्० → हुं० सामिहुं।
[अह विरल-पहाउ जि कलिहि धम्मु] एकमेव पदम् । अस्यार्थः- अथ विरलप्रभाव एव कलौ धर्म इत्यर्थः । [जि] एव । 'पश्चादेवमेवैवेदानी - प्रत्युतेतसः पच्छइ - एम्वइ-जि०' (४।४२०) एव० → जि० जि । [कलिहि] कलि । सप्तमी ङि । अनेन ङि० → हि० कलिहि ॥३४१।।
आट्टो णा-ऽनुस्वारौ ॥ ८।४।३४२ ॥
अपभ्रंशे अकारात् परस्य टावचनस्य णा-ऽनुस्वारावादेशौ भवतः ।।
दइएं पवसंतेण ॥ [आवे णा-ऽनुस्वारौ] अ पञ्चमी ङसि । टा षष्ठी ङस् । णश्च अनुस्वारश्च = णाऽनुस्वारौ । प्रथमा औ । [दइएं पवसंतेण] दयितेन प्रवसता । पूर्वं लिखितम् । [४।३३३] ॥३४२।।
____एं चेदुतः ॥ ८।४।३४३ ॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं. चकारात् णा-ऽनुस्वारौ च भवन्ति । ॥ एं॥ अग्गिएं उण्हउँ होइ जग वाएं सीअल तेवँ ।
जो पुणु अग्गि सीअला तसु उण्हत्तणु केव ॥१॥ ॥ णा-ऽनुस्वारौ ॥ 'विप्पिअ-आरउ जइ वि पिउ तो वि त आणहि अज्जु ।
अग्गिण दड्ढा जइ वि घरु तो तें अग्गि कज्जु ।।२।। एवमुकारादप्युदाहार्याः ॥ [एं चेदुतः] एं प्रथमा सि । च प्रथमा सि । इदुत् पञ्चमी ङसि । [अग्गिएं उपहउँ होइ जगु.........]
अस्यार्थः- अग्निना जगदुष्णं भवति, तथा वातेन शीतलं भवति । यः पुनः अग्निनाऽपि शीतलस्तस्योष्णत्वं कथम् ? । न कथमपीत्यर्थः ॥ - [अग्गिएं] अग्नि । तृतीया टा । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । अनेन टा० → एं० अग्गिएं । १. जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि । पत्ते वि णअरदाहे भण कस्स ण वल्लहो अग्गी ।
[गा० स० - २०६३] येन विना न जीव्यतेऽनुनीयते स कृताऽपराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ २. पाठां०- व० ल० - कुट्टिणीसिक्खावज्जा-५५७-६. वलिज्जइ = स्थीयते । [गा० को० - वल्यते- ४१६४]