________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५५१
[कण्णहिं] कर्ण । सप्तमी ओस् । 'द्विवचनस्य बहुवचनम्' (३।१३०) ओस् → सुप्० । 'भिस्सुपोर्हि' (४/३४७) सुप्० → हिं० । 'सर्वत्र ल-व०' (२२७९) लुक् । 'अनादौ०' (२८९) द्वित्वं-ण० → ण्ण० कण्णहिं ।
[धवलु विसूरइ सामिअहो.......]
अस्यार्थः- धवलो वृषभो धौरेयो विषीदति-विषादं करोति । किंकृत्वा ? स्वामिनो गुरुं भारं प्रेक्ष्य ! कि मनस्यचिन्तयत्तदाह-अहं किन्न योजितः ? क्व? द्वयोर्दिशोः । किंकृत्वा ? द्वौ खण्डौ कृत्वा इत्यर्थः ।
[ दुहुं] द्वि । सप्तमी ओस् । 'द्विवचनस्य बहुवचनम्' (३।१३०) ओस्० → सुप्० । 'द्विन्योरुत्' (१९४) द्वि० → दु० । प्रायो ग्रहणादनेन सुपोऽपि हुँ दुहुँ ।
[दिसिहि] दिश् । सप्तमी ओस् । 'द्विवचनस्य बहुवचनम्' (३।१३०) ओस् → सुप्० । 'दिक्-प्रावृषोः सः' (१।१९) श० → स० । 'स्वराणां स्वराः प्रायो०' (४।३२९) स० → सि० । 'भिस्-सुपोहिं' (४।३४७) सुप्० → हिं० दिसिर्हि ॥३४०॥
ङसि-भ्यस्-डीनां हे-हुं-हयः ॥ ८।४।३४१ ।। अपभ्रंशे इदुद्भ्यां परेषां ङसि-भ्यस्-ङि इत्येतेषां यथासंख्यं हे-हुं-हि इत्येते त्रय आदेशा भवन्ति ॥ ॥ ङसेहे ॥ गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रन्नु ॥१॥ ॥ भ्यसो हुँ ॥ तरुहुं वि वक्लु फलु मुणि वि परिहणु असणु लहंति ।
सामिहुं एत्तिउ अग्गलउं आयरु भिच्च गृहति ॥२॥ ॥ डेहि ।। अह विरल-पहाउ जि कलिहि धम्मु ॥३॥ [डसि-भ्यस्-डीनाम्] ङसि-भ्यस्-ङि षष्ठी आम् । [हे-हुं-हयः] हे-हुं-हि प्रथमा जस् । [गिरिहे सिलायलु तरुहे फलु....]
अस्यार्थ:- निःसामान्यं सर्वोऽपि जनो गिरेः शिलातलं गृह्णाति । तरोश्च फलं गृह्णाति । ततोऽपि मानुषाणां मनुष्येभ्यो वा गृहं मुक्त्वा अरण्यं न रोचते इत्यर्थः ।
[गिरिहे] गिरि । पञ्चमी ङसि । अनेन ङसि० → हे० गिरिहे । [ तरुहे] तरु । पञ्चमी ङसि । अनेन ङसि० → हे० तरुहे। [तरुहुं वि वक्लु फलु...........]
अस्यार्थः- मुनयोऽपि तरुभ्योऽपि वल्कलं परिधानं फलमशनं क्रमेण लभन्ते, परं स्वामिभ्य इयदर्गलमधिकं यद् भृत्या आदरं गृह्णन्तीत्यर्थः । १. वत्थाई वक्कलाई वित्थिन्न-सिलायलाई सयणीयं । असणं जत्थ फलाई तं रनं कह न रमणीयं ॥ [ना० क० - ६५१] २. अडवीसु वरं वासो, समयं हरिणेसु जत्थ सच्छन्दो । न य एरिसाणि सामिय !, सुव्वंति जहिं दुव्वयणाई ॥
[पउमचरिये कविलोवक्खाणो नाम पंचतीसइमा उद्देसो-गा० -११]