________________
५५०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[सुअणस्सु] सुजन । षष्ठी ङस् । ‘क-ग-च-ज०' (१।१७७) ज्लुक् । 'नो णः' (१।२२८) न० → ण । अनेन ङस्० → स्सु० सुअणस्सु ॥३३८।।
आमो हं ॥ ८।४।३३९ ॥ अपभ्रंशे अकारात् परस्य आमो हमित्यादेशो भवति । तणहं तइज्जी भंगि न वि तें अवड-यडि वसंति । अह जणु लग्गिवि उत्तरइ अह सह सई मज्जति ॥१॥ [आमो हं] आम् षष्ठी ङस् । हं प्रथमा सि । [तणहं तइज्जी भंगि............]
अस्यार्थः- तृणानां तृतीया भङ्गी नापि - तृतीयः प्रकारो नाऽप्यस्ति, तेन कारणेन अवटतटे-कूपतटे वसन्ति । अथ यो जनस्तृणानि लगित्वा उत्तरति । अथ इति अथवा तृणानि जनेन सह स्वयं मज्जन्ति । अन्योऽपि यः प्रकारद्वयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किं? म्रियते वा शत्रून् जयति वेति भावार्थ इत्यर्थः ॥ [तणहं] तृण । षष्ठी आम् । 'स्वराणां स्वरा:०' (४।३२९) तृ० → त० । अनेन आम्० → हं० तणहं ॥३३९।।
म् ॥८।४।३४० ॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हं हं चादेशौ भवतः ।। दइवु' घडावइ वणि तरुहुँ सउणिहं पक्क-फलाई । सो वरि सुक्खु पइट्ठ ण वि कण्णहिं खल-वयणाई ॥१॥ प्रायोऽधिकारात् क्वचित् सुपोऽपि हुँ । धवलु विसूरइ सामिअहो गरुआ भरु पिक्खेवि । हउं किं न जुत्तंउ दुहुं दिसिहं खण्डई दोण्णि करेवि ॥२॥ [हुं चेदुद्भ्याम् ] हुं प्रथमा सि । च प्रथमा सि । इच्च उच्च = इदुतौ, ताभ्याम् = इदुद्भ्याम् । पञ्चमी भ्याम् । [दइवु घडावइ वणि तरुहुं सउणिहं.............]
अस्यार्थ:- दैवो वने तरूणां पक्वफलानि शकुनीनां - पक्षिणां घटयति तत् सौख्यं, वरं कर्णयोः प्रविष्टानि खलवचनानि सौख्यं नेत्यर्थः ।
[तरुहुं] तरु । षष्ठी आम् । अनेन आम्० → हुं० तरुहुं ।
[सउणिहं] शकुनि । षष्ठी आम् । 'श-षोः सः' (१।२६०) श० → स० । 'क-ग-च-ज०' (१।१७७) क्लु क् । 'नो णः' (१।२२८) नि० → णि० । अनेन आम्० → हं० सउणिहं । १. तं सुणिवि भणइ अहिमाणमेरु वरि खज्जइ गिरिकंदरि कसेरु । णउ दुज्जण-भउँहा-वंकियाई दीसंतु कालुस-भावंकियाई ॥
[म० पु० - सन्धिः १, विभाग:-३, पङ्क्तिः - १२-१३] २. अयं दोधक उपाध्यायविनयविजयविरचितायां कल्पसूत्रटीकायां सुबोधिकायामपि षष्ठे व्याख्याने शूलपाणियक्षपूर्वजन्मकथायामुद्धृतः । ३. पाठां- क० सू० - जुत्तो दुहिं धुरिहिं खंडय दुन्नि करेवि ।