________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५४९
[डसे-ह] ङसि षष्ठी ङस् । हे-हु प्रथमा औ । 'स्यमोरस्योत्' (४।३३१) इत्यत्र अस्येति यत्पदं षष्ठ्यन्तं तत्पदं च पञ्चम्यन्तमत्र व्याख्यायते ।
[वच्छहे गृण्हइ फल..............] [वच्छहु गृण्हइ ]
अस्यार्थ:- जनो वृक्षात् फलानि गृह्णाति, कटुपल्लवानि वर्जयति, ततोऽपि महाद्रुमस्तान्-कटुपल्लवान् उच्छंगे (उत्सङ्गे) धरति । क इव ? सुजन इव । यथा सुजनः कटुपल्लवप्रायानपि जनान् धरति, न तु तिरस्करोतीत्यर्थः ।
[वच्छहे वच्छह ] वृक्ष (२) । पञ्चमी ङसि । 'छोऽक्ष्यादौ' (२०१७) क्षस्य छः । 'अनादौ०' (२१८९) छस्य द्वित्वम्। 'द्वितीय-तुर्य०' (२२९०) पूर्वछस्य चः । 'ऋतोऽत्' (१।१२६) वृ० → व० । अनेन सिस्थाने हे० अथवा हु० वच्छहे वच्छहु ॥३३६।।
भ्यसो हुँ॥ ८।४।३३७ ॥ अपभ्रंशे अकारात् परस्य भ्यस: पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति ॥ दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिंगहुं पडिअ सिल अण्णु वि चूरु करेइ ॥१॥ [भ्यसो हुं] भ्यस् षष्ठी डस् । हुं प्रथमा सि । [दूरुड्डाणे पडिउ खलु...........]
अस्यार्थः- दूरोड्डयनेन-दूरगमनेन पतितः खलो दुर्जनः आत्मानं जनं च मारयति । यथा गिरिशृङ्गेभ्यः पतिता शिला आत्मानमन्यमर्पि चूर्णीकरोंतीत्यर्थः ॥३३७||
डसः सु-हो-स्सवः ।। ८।४।३३८ ॥ अपभ्रंशे अकारात् परस्य ङसः स्थाने सु-हो-स्सु इति त्रय आदेशा भवन्ति ॥ जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउं कलि-जुगि दुल्लहहो बलि किज्जउं सुअणस्सु ॥१॥ [डसः सु-हो-स्सवः ] ङस् षष्ठी ङस् । सु-हो-स्सु प्रथमा जस् । [जो गुण गोवइ अप्पणा.....]
अस्यार्थ:- य आत्मीयान् गुणान् गोपयति । परस्य गुणान् प्रकटान् करोति । अहं कलियुगे तस्य दुर्लभस्य सुजनस्य बलि-पूजां क्रिये इत्यर्थः ।
[परस्सु] पर । षष्ठी ङस् । अनेन ङस्० → स्सु० परस्सु । [तसु] तद् । षष्ठी ङस् । 'अन्त्यव्य०' (१।११) द्लुक् । अनेन ङस्० → सु० तसु ।
[ दुल्लहहो] दुर्लभ । षष्ठी ङस् । 'सर्वत्र ल०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-ल० → ल० । 'ख-घथ-ध-भाम्' (१।१८७) भस्य हः । अनेन ङस् → हो० दुल्लहहो ।
१. G. 'स्वराणां०' (४।३२९) वृ० →व० । २. J. N. दपि ।