________________
५४८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
डिनेच्च ॥ ८।४।३३४ ॥
अपभ्रंशे अकारस्य ङिना सह इकार एकारश्च भवतः ॥ सायरु उप्परि तणु धरइ तलि घल्लइ रयणाई । सामि सु-भिच्चु वि परिहरइ सम्माणेइ खलाई ॥१॥ तले घल्लइ ॥ [डिनेच्च ] ङि तृतीया टा । इत् प्रथमा सि । च प्रथमा सि । [सायरु उप्परि तणु धरइ तलि.........] [तले घलइ]
अस्यार्थः- सागर उपरि तृणानि धरति । रत्नानि तले क्षिपति । स्वामी सुभृत्यमपि परिहरति - नीचैःकरोति । खलान् सम्मानयति-उच्चैःकरोतीत्यर्थः ॥ [तलि तले ] तल् (२) । सप्तमी ङि। अनेन ङिना सह प्रथमे इकार:- लि०-तलि । द्वितीये एकार:-ले०-तले ॥३३४||
भिस्येद्वा ॥ ८।४।३३५ ॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणहिं न संपय कित्ति पर फल लिहिआ भुंजंति । केसरि न लहइ बोड्डिअ वि गय लक्खेहिं घेप्पंति ॥१॥ [भिस्येद्वा] भिस् सप्तमी ङि । एत् प्रथमा सि । वा प्रथमा सि । [गुणहिं न संपय कित्ति पर..........]
अस्यार्थः- गुणैः संपदो न स्युः परं केवलं कीतिरेव भवति । जीवा लिखितानि फलानि भुञ्जते । तत्र दृष्टान्तः- केसरी कपर्दिामपि न लभते, गजास्तु लक्षगुह्यन्ते इत्यर्थः ।।
[गुणहिं] गुण । तृतीया भिस् । अनेन वा एत्त्वम् । 'भिसो हि-हिँ-हिं' (३७) भिसस्थाने हिं गुणहिं ।
[लक्खेहिं] लक्ष । तृतीया भिस् । 'क्षः खः क्वचित्तु०' (२३) क्षस्य ख० । 'अनादौ०' (२।८९) द्वित्वं-ख्ख० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । अनेन एत्त्वं - क्ख० → खे० । 'भिसो हि-हि-हिं' (३७) भिस्स्थाने हिं लक्खे हिं ॥३३५॥
डसेहे-हू ॥ ८।४।३३६ ॥ अस्येति पञ्चम्यन्तं विपरिणम्यते ॥ अपभ्रंशे अकारात् परस्य ङसे?-हु इत्यादेशौ भवतः ॥ वच्छहे गृण्हइ फलइँ जणु कडु-पल्लव वज्जेइ । तो वि महदुमु सुअणु जिव ते उच्छंगि धरेइ ॥१॥
वच्छहु गृण्हइ ॥ १. N. काकिणीमपि ।