SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५४७ [अंगहिं अंगु न मिलिउ...........] अस्यार्थः- अङ्गैरङ्गं न मिलितम् । हे सखि ! अधरेण अधरो न प्राप्तः । प्रियस्य मुखकमलं पश्यन्त्या एव स्त्रिया एवमेव सुरतं समाप्तमित्यर्थः । अथ साधनिका - [अंगु] अंग । प्रथमा सि । 'स्यमोरस्योत्' (४३३१) ग० → गु० । 'स्यम्-जस्०' (४।३४४) सिलुक् अंगु । [अहरु ] अधर । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) २०, रु० । 'स्यम्-जस०' (४।३४४) सिलुक । 'ख-घथ०' (१२१८७) धस्य हः अहरु । [पत्तु] प्राप्त । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) प्त० → तु० । 'सर्वत्र ल-व०' (२७९) लुक् । 'हुस्वः । संयोगे' (१९८४) पा० → प० । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२।८९) द्वित्वं - तु० → त्तु० । 'स्यम्जस्०' (४।३४४) सिलुक् पत्तु । [मुहकमलु] मुखकमल । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) ख० → ह० । 'स्यमोरस्योत्' (४।३३१) ल० → लु० । 'स्यम्-जस्०' (४।३४४) सिलुक् मुहकमलु । __ [सुरउ] सुरत । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) त० → तु० । 'स्यम्-जस्०' (४।३४४) सिलुक् । 'क-गच-ज०' (१।१७७) त्लु क् सुरउ । [समत्तु ] समाप्त । प्रथमा सि । 'हुस्वः संयोगे' (१८४) मा० → म० । 'क-ग-ट-ड०' (२१७७) प्लुक् । 'अनादौ०' (२१८९) द्वित्वं - त० → त्त० । 'स्यमोरस्योत्' (४।३३१) त्त० → त्तु० । 'स्यम्-जस्०' (४।३४४) सिलुक् समत्तु ॥३३२।। एट्टि ॥ ८।४।३३३ ॥ अपभ्रंशे अकारस्य टायामकारो भवति ।। जे महु दिण्णा दिअहडा दइएं पवसंतेण । ताण गणंतिएँ अंगुलिउ जज्झरिआउ नहेण ॥१॥ [एट्टि] एन्ट् सप्तमी ङि । [जे महु दिण्णा दिअहडा......... अस्यार्थः- प्रवसता-चलता दयितेन ये मम दिवसा दत्तास्तान् दिवसान् गणयन्त्या ममाङ्गल्यो नखेन जर्जरिता इत्यर्थः । [पवसंतेण] 'वसं निवासे' (९९९) वस्, प्रपूर्व० । प्रवसतीति । शतृप्र० → अत्० । 'शत्रानशः' (३।१८१) अत्० →न्त० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) प्रवसन्त । तृतीया टा । अनेन एत्वं - न्त० → न्ते० । 'आट्टो णा-ऽनु०' (४३४२) टा० → ण० 'सर्वत्र ल-व०' (२१७९) लुक् पवसंतेण । [नहेण ] नख । तृतीया टा । 'ख-घ-थ०' (१।१८७) ख० → ह० । अनेन एत्त्वं - ह० → हे० । 'आटो णाऽनु०' (४।३४२) टा० → ण० नहेण ॥३३३।। १. हत्थेसु अ पाएसु अ अङ्गलिगणणाइ अईंगआ दिअहा । एण्हि उण केण गणिज्जउ त्ति भणिउ रुअइ मुद्धा ॥ [गा० स०-४७] हस्तयोश्च पादयोश्चाऽङ्गलिगणनयातिगता दिवसाः । इदानीं पुन: केन गण्यतामिति भणित्वा रोदिति मुग्धा ॥ २. पाठां० - गा० को०-तव गया [३।४६]
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy