________________
५४६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[छंमुहु] षण्मुख । द्वितीया अम् । 'षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छ:' (१।२६५) षट्० → छ० । 'वक्रादावन्तः' (१।२६) ('ङ-ब-ण०' (१।२५)) अनुस्वारः । 'ख-घ-थ-ध भाम्' (१।१८७) ख० → ह० । अनेन ह० → हु० । 'स्यम्-जस्०' (४।३४४) अम्लुक् छंमुहु ।।
[झाइवि] 'ध्य चिन्तायाम्' (३०) ध्यै । 'ध्या-गोह-गौ' (४६) ध्या० → झा० । क्त्वाप्र० । 'क्त्व इ-इउ-इविअवयः' (४।४३९) क्त्वा० → इवि० झाइवि ।
[एक्कहिं] एक । सप्तमी ङि। 'डेहिँ' (४।३५२) ङि० → हिं० । 'सेवादौ वा' (२।९९) द्वित्वं - क० → क० एक्कहिं ।
[लाइवि] 'लगे सङ्गे' (१०२४) लग् । णिग्प्र० । 'लुगावी क्त-भाव-कर्मसु' (३।१५३) णिग्लुक् । क्त्वाप्र० । 'क्त्व इ-इउ-इवि-अवयः' (४।४३९) क्त्वा० → इवि० । 'अदेल्लुक्यादेरत आः' (३।१५३) ल० → ला० । 'क-ग-चज०' (१।१७७) ग्लुक् लाइवि ।
[णावइ ] इव । 'इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः' (४|४४४) नावइ । 'वाऽऽदौ' (१२२२९) ना० → णा० णावड़।
[दइवें] दैव । 'एच्च दैवे' (१।१५३) दै० → दइ० । तृतीया टा । 'एट्टि' (४।३३३) एत्त्वं-व० → वे० । 'आट्टो णा-ऽनुस्वारौ' (४।३४२) टाया अनुस्वारः दइवें ।
[घडिअउ] घटित । प्रथमा सि । 'अ-डड-डुल्ला:०' (४।४२९) अप्र० । अनेन अ० → उ० । 'टो डः' (१।१९५) टि० → डि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'स्यम्-जस्०' (४।३४४) सिलुक् घडिअउ ॥३३१।।
सौ पुंस्योद्वा ॥ ८।४।३३२ ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोऽकारस्य सौ परे ओकारो वा भवति । अगलिअ-नेह-निवट्टाहं जोअण-लक्खु वि जाउ । वरिस-सएण वि जो मिलइ सहि ! सोक्खहं सो ठाउ ॥१॥ पुंसीति किम् ? अंगहि अंगु न मिलिउ हलि ! अहरें अहरु न पत्तु । पिअ जोअन्तिर्हे मुह-कमलु एवइ सुरउ समत्तु ॥२॥ [सौ पुंस्योद्वा ] सि सप्तमी ङि । पुम्स् सप्तमी ङि । ओत् प्रथमा सि । वा प्रथमा सि ।
[अगलिअ-नेह-निवट्टाहं.........] - अस्यार्थः- अगलितस्नेहनिवृत्तानां - अत्रुटितस्नेहचलितानामुपरि योजनलक्षमपि यातु । हे सखि ! वर्षशतेनापि यो मिलति स सौख्यानां स्थानं भवतीत्यर्थः ।
अथ साधनिका- [जो] यद् । प्रथमा सि । 'अन्त्यव्य०' (११११) द्लुक् । 'आदेर्यो जः' (११२४५) यस्य जः । अनेन ज० → जो० । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् जो।
[सो] तद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) द्लुक् । 'तदश्च तः सोऽक्लीबे' (३।८६) त० → स० । अनेन स० → सो० । 'स्यम्-जस्०' (४।३४४) सिलुक् सो । १. हउँ सगुणी पिउ णिग्गुणउ णिल्लक्खणु णीसंगु । एक्कहिं अंगि वसंताहं मिलिउ ण अंगहि अंगु ॥ [पाहुडदोहा-१००]