________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५३९
[नमथ ] नम् । पञ्चमी त । 'मध्यमस्येत्था-हचौ' (३।१४३) त० → हच् । 'इह-हचोर्हस्य' (४।२६८) ह० → ध० । 'चूलिकापैशाचिके तृतीय०' (४।३२५) ध० → थ० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) नमथ । शेषं स्पष्टम् ॥३२६॥
नादि-युज्योरन्येषाम् ॥ ८।४।३२७ ॥ चूलिकापैशाचिकेऽपि अन्येषामाचार्याणां मतेन तृतीय-तुर्ययोरादौ वर्तमानयोर्युजिधातौ च आद्य-द्वितीयौ न भवतः ॥
गतिः → गती । धर्मः → घम्मो । जीमूतः → जीमूतो । झर्झरः → झच्छरो । डमरुकः → डमरुको । ढक्का → ढक्का । दामोदरः → दामोतरो। बालकः → बालको । भगवती → भकवती । नियोजितम् → नियोजितं ॥
[नादि-युज्योरन्येषाम् ] न प्रथमा सि । आदि-युजि षष्ठी ओस् । अन्य षष्ठी आम् । सुगमम् ॥३२७॥
शेषं प्राग्वत् ॥ ८।४।३२८ ॥ चूलिकापैशाचिके तृतीय-तुर्ययोरित्यादि यदुक्तं ततोऽन्यच्छेषं प्राक्तनपैशाचिकवद् भवति ॥ नकर । मक्कनो ॥ अनयोर्नो णत्वं न भवति, णस्य तु नत्वं स्यात् ॥ एवमन्यदपि ॥ [शेषं प्राग्वत् ] शेष प्रथमा सि । प्राग्वत् प्रथमा सि । [नकरं] नगरम् → नकरं । [मक्कनो] मार्गणः → मक्कनो ॥३२८||
१.
E. J.
M.
च ।