________________
५४०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
॥ अतोऽपभ्रंशभाषा प्रारभ्यते ॥
स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ८।४।३२९ ॥ अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ।।
कच्चु कोच्च ॥ वेण वीण || बाह बाहा बाहु || पट्टि पिट्ठि पुट्ठि ॥ तणु तिणु तृणु ॥ सुकिदु सुर्किओ सुकृदु । 'किन्नर किलिनउ || लिह लीह लेह ॥ गउरि गोरि ॥
प्रायोग्रहणाद्यस्याऽपभ्रंशे विशेषो वक्ष्यते तस्याऽपि क्वचित् प्राकृतवत् शौरसेनीवच्च कार्यं भवति ॥ [स्वराणां स्वराः प्रायोऽपभ्रंशे] स्वर षष्ठी आम् । स्वर प्रथमा जस् । प्रायस् प्रथमा सि । अपभ्रंश सप्तमी ङि । [कच्चु काच्च ] कोच (२) । अनेन स्वरस्थाने स्वर एव-का० → क० । 'सेवादौ वा' (२।९९) द्वित्वं - च०
प्रथमा सि । प्रथम 'स्यमोरस्योत्' (४।३३१) च्च० → च्चु० । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् कच्चु काच्च ।
[वेण वीण] वीणा (२) । अनेन वी० → वे० । 'स्यादौ दीर्घ-हस्वौ' (४।३३०) णा० → ण । प्रथमा सि । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् वेण वीण ।
[बाह बाहा बाहु] बाहु (३) । अनेन हु० → ह-हा-हु० । प्रथमा सि । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् बाह-बाहा-बाहु ।
[पट्टि पिट्टि पुट्टि] पृष्ठि (३) । अनेन प्रथमे पृ० → प० - द्वितीये पृ० → पि० - तृतीये पृ० → पु० । 'ष्टस्याऽनु०' (२।३४) ष्ठि० → ठि० । 'अनादौ०' (२१८९) द्वित्वं- ट्ठि० । 'द्वितीय-तुर्य०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् पट्टि पिट्ठि पुट्ठि ।
[तणु तिणु तृणु] तृण (३) । अनेन प्रथमे तृ० → त० - द्वितीये तृ० → ति० - तृतीये तृ० → तृ० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) ण० → णु० । 'स्यम्-जस्०' (४।३४४) सिलुक् तणु तिणु तृणु ।
[सुकिदु सुकिओ सुकृदु] सुकृत (३) । प्रथमा सि । 'अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-धब-भाः' (४।३९६) तस्य दः । अनेन प्रथमे-द्वितीये कृ० → कि० । तृतीये कृकारस्य कृकार एव । प्रथमे दस्य दु० - द्वितीये दस्य दो० - तृतीये दस्य दु० । द्वितीये 'क-ग-च-ज०' (१।१७७) द्लुक् । 'स्यम्-जस्०' (४।३४४) सिलुक् सुकिदु सुकिओ सुकृदु ।
[किन्नउ किलिन्नउ] क्लुन्नक (२) । प्रथमा सि । प्रथमेऽनेन क्ल० → कि० । 'लुत-इलि: क्लृप्त-क्लन्ने' (१।१४५) क्ल० → किलि० । 'अ-डड-डुल्लाः स्वार्थिक०' (४।४२९) अप्र० - कलुक् च । 'स्यमोरस्योत्' (४।३३१) अ० → उ० किन्नर किलिन्न।
[लिह लीह लेह] लेखा (३) । अनेन प्रथमे ले० → लि. - द्वितीये ले०→ ली० । प्रथमा सि । 'स्यादौ दीर्घहुस्वौ' (४।३३०) खा० → ख० । 'ख-घ-थ-ध-भाम्' (१२१८७) ख० → ह० । 'स्यम्-जस्०' (४३४४) सिलुक् लिह लीह । तृतीये अनेन एकारस्य एकार एव लेह ।।
१. N. कच्च । २. H.I. J. M. N. सुकिउ । ३. H. I. J. M. किनओ किलिन्नओ। ४. N. गउरी गोरी । ५. M. N. कच्चित् । ६. G. पृष्ट । 'जातेरयान्त०' (२।४।५४) ङी। 'लुक् (१।१०) अलुक् । अनेन ऋत: अ-इ-उ। 'स्यादौ दीर्घ-हुस्वौ' (४।३३०) हुस्वः । M. N. पृष्ठ ।