________________
५३८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
'पनमथ पनय-पकुप्पित-गोली-चलनग्ग-लग्ग-पतिबिंबं । तससु नख-तप्पनेसु एकातस-तनु-थलं लुई ॥ नच्चन्तस्य य लीला-पातुक्खेवेन कम्पिता वसुथा । उच्छलन्ति समुद्दा सइला निपतन्ति तं हलं नमथ । [रस्य लो वा] र षष्ठी ङस् । ल प्रथमा सि । वा प्रथमा सि । [पनमथ पनय-पकुप्पित-गोली............]
रुद्रं प्रणमत । किंविशिष्टं रुद्रम् ? प्रणय-प्रकुपित-गौरी-चरणाग्र-लग्न-प्रतिबिम्बम् । केषु ? दशसु नखदर्पणेषु । पुन: किंविशिष्टं रुद्रम् ? एकादश-तनुधरं इत्यर्थः ।
अथ व्युत्पत्ति:- [पनमथ] प्रपूर्व० नम्० । पञ्चमी त । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।११३) प्रनमत । 'बहुषु न्तु-ह-मो' (३।१७६) त० → ह० । इह-हचोर्हस्य' (४।२६८) ह० → ध० । 'चूलिकापैशाचिके०' (४।३२५) धस्य थः । 'सर्वत्र ल-व०' (२७९) लुक् पनमथ ।
[गोली-चलनग्ग] गौरी-चरणाग्र । अनेन रस्य लः । 'हुस्वः संयोगे' (१९८४) णा० → ण । 'सर्वत्र ल-व०' (२७९) लुक् । 'णो नः' (४।३०६) ण० → न० गोली-चलनग्ग ।
[थलं ] धरम् । अनेन रस्य लः । 'चूलिकापैशाचिके तृतीय०' (४।३२५) धस्य थ: थलं । [लुदं ] रुद्रम् । अनेन रस्य लः लुदं । [नच्चन्तस्स य लीला-पातुक्खेवेन..
तं हरं नमत । किंविशिष्टं तं हरम् ? यस्य नृत्यत:- नृत्यं कुर्वतः लीलापादोत्क्षेपेण वसुधा कम्पिता, समुद्रा उच्छलन्ति, शैला निपतन्तीत्यर्थः । __ [नच्चन्तस्स ] 'नृतैच् नर्तने' (११५२) नृत् । शतृप्र० । 'शत्रानशः' (३।१८१) शतृ० → न्त० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) नृत-न्त । 'व्रज-नृत-मदां च्चः' (४।२२५) त० → च्च० । 'ऋतोऽत्' (१।१२६) नृ० → न० । षष्ठी ङस् । 'डसः स्सः' (३।१०) ङस्० → स्स० नच्चन्तस्स ।
[य] च । 'क-ग-च-ज०' (१२१७७) च्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य य ।
[लीला-पातुक्खेवेन] लीलापादोत्क्षेपेण । 'न क-ग-च-जादि-षट्-शम्यन्तसूत्रोक्तम्' (४।३२४) इत्यनेन निषेधे सत्यपि बाहुलकात् 'पो वः' (११२३१) पे० → वे० । शेषं स्पष्टम् । लीला-पातुक्खेवेन ।
[उच्छलन्ति ] उच्छल । वर्त० अन्ति । उच्छलन्ति ।
[समुद्दा] समुद्र । प्रथमा जस् । समुद्दा ।
[सइला] शैल । प्रथमा जस् । 'वैरादौ वा' (१।१५२) शै० → शइ० । 'श-षोः सः' (४।३०९) श० → स० सइला ।
१. पनमत पनअपकुप्पितगोलीचलनग्गलग्गपडिबिम्बम् । दससु नहदप्पनेसु एआदसतनुधलं लुद्दम् ॥
[स० क० - द्वितीय: परिच्छेदः - ४] प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥