________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५३७
न क-ग-च-जादि-षट्-शम्यन्तसूत्रोक्तम् ॥ ८।४।३२४ ॥ पैशाच्यां 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' (१।१७७) इत्यारभ्य 'षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छ:' (१।२६५) इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्यं तन्न भवति ॥
मकरकेतू । सगरपुत्तवचनं । विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो ॥ एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ॥
न क-ग-च-जेति ।
[तेवरो] देवर । प्रथमा सि । 'त-दोस्तः' (४।३०७) दे० → ते० । 'अतः से?ः' (३२) सि० →डो० → ओ० तेवरो ।
शेषं सुगमम् ॥३२४॥
चूलिकापैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ८।४।३२५ ॥ चूलिकापैशाचिके वर्गाणां तृतीय-तुर्ययोः स्थाने यथासंख्यमाद्य-द्वितीयौ भवतः ॥
नगरम् → नकरं । मार्गण: → मक्कनो । गिरि-तटम् → किरि-तटं । मेघः → मेखो । व्याघ्रः → वक्खो । धर्मः → खम्मो । राजा → राचा । जर्जरम् → चच्चरं । जीमूतः → चीमूतो । निर्झरः → निच्छरो । झर्झरः → छच्छरो । तडागम् → तटाकं । मण्डलम् → मण्टलं । डमरुक: → टमरुको । गाढम् → काठं । षण्डः → सण्ठो । ढक्का → ठक्का । मदनः → मतनो । कन्दर्पः → कन्तप्पो । दामोदरः → तामोतरो । मधुरम् → मथुरं । बान्धवः → पन्थवो। धूली → थूली । बालकः → पालको । रभसः → रफसो । रम्भा → रम्फा । भगवती → फकवती । नियोजितम् → नियोचित्तं ॥
क्वचिल्लाक्षणिकस्यापि - पडिमा इत्यस्य स्थाने पटिमा । दाढा इत्यस्य स्थाने ताठा ॥
[चूलिकापैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ] चूलिकापैशाचिक सप्तमी ङि । तृतीय-चतुर्थ(तुर्य) षष्ठी ओस् । आद्य-द्वितीय प्रथमा औ ।
[मक्कनो] मार्गण । प्रथमा सि । 'हस्वः संयोगे' (१२८४) मा० → म० । अनेन र्ग० → के० । 'सर्वत्र ल-व०' (२२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-क० → क० । 'णो नः' (४।३०६) ण० → न० । 'अतः से?:' (३।२) सि० → डो० → ओ० मक्कनो ।
[वक्खो ] व्याघ्र । प्रथमा सि । 'अधो म-न-याम्' (२७८) यलुक् । 'हुस्वः संयोगे' (१८४) वा० → व० । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन घस्य ख० । 'अनादौ०' (२।८९) द्वित्वं-ख्ख० । "द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'अतः से?:' (३।२) सि० → डो० → ओ० वक्खो । [ताठा] दंष्ट्रा । 'दंष्ट्राया दाढा' (२।१३९) दंष्ट्रा० → दाढा० । अनेन दस्य त० - ढस्य ठ० ताठा ॥३२५।।
रस्य लो वा ॥८।४।३२६ ॥
चूलिकापैशाचिके रस्य स्थाने लो वा भवति ॥