________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५३१
[कधितून ] 'कथण वाक्यप्रबन्धे' (१८८०) कथ । विकल्पेन ण्यन्ताश्चुरादयः साध्यत्वाद्वा णिजभावः । क्त्वाप्र० । अनेन क्त्वा० → तून० इति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) कथ-तून । 'एच्च क्त्वा-तुम्०' (३।१५७) थ० → थि० । 'थो धः' (४।२६७) थि० → धि० कधितून ॥३१२॥
खून-त्थूनौ ष्ट्वः ॥ ८।४।३१३ ॥ पैशाच्या ष्ट्वा इत्यस्य स्थाने खून-त्थून इत्यादेशौ भवतः ॥ पूर्वस्याऽपवादः ॥ नधून नत्थून । तद्भून तत्थून ॥ [खून-त्थूनौ ष्ट्वः ] खून-त्थून प्रथमा औ । ष्ट्वा षष्ठी ङस् ।
[नधून नत्थून ] नंष्ट्वा (२) । 'विंशत्यादेर्लुक्' (१।२८) अनुस्वारस्य लुक् । अनेन ट्वा० → खून०-त्थून० नळून नत्थून ।
[तथून तत्थून ] दृष्ट्वा (२) । 'ऋतोऽत्' (१।१२६) दृ० → द० । 'त-दोस्तः' (४।३०७) द० → त० । अनेन ष्ट्वा० → खून०-स्थून० तळून तत्थून ॥३१३।।
र्य-स्न-ष्टां रिय-सिन-सटाः क्वचित् ॥ ८।४।३१४ ॥ पैशाच्यां र्य-स्न-ष्टां स्थाने यथासंख्यं रिय-सिन-सट इत्यादेशाः क्वचिद् भवन्ति ॥ भार्या → भारिआ । स्नातम् → सिनातं । कष्टम् → कसटं || क्वचिदिति किम् ? सुज्जो । सुनुसा । तिट्ठो ॥ [र्य-स्न-ष्टाम् ] र्य-स्न-ष्ट्र षष्ठी आम् । [रिय-सिन-सटाः क्वचित् ] रिय-सिन-सट प्रथमा जस् । क्वचित् प्रथमा सि । [भारिआ] भार्या । अनेन र्यस्य रिअ० भारिआ । [सिनातं ] स्नातम् । अनेन स्नस्य सिन० सिनातं । [ कसटं ] कष्टम् । अनेन ष्टस्य सट० कसटं ।
[सुज्जो ] सूर्य । प्रथमा सि । 'हुस्वः संयोगे' (१८४) सू० → सु० । 'द्य-य्य-यां जः' (२०२४) र्य० → ज० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सुज्जो ।
[सुनुसा] स्नुषा । प्रथमा सि । 'गोणादयः' (२।१७४) नात् प्राग् उ० । 'श-षोः सः' (४।३०९) षा० → सा० । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् सुनुसा ।
[तिट्ठो ] दृष्ट । प्रथमा सि । 'इत्कृपादौ' (१।१२८) दृ० → दि० । 'ष्टस्याऽनुष्ट्रेष्टा०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) द्वित्वं-ठ्ठ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'त-दोस्तः' (४।३०७) दस्य तः । 'अतः सेोंः ' (३।२) सि० → डो० → ओ० तिट्ठो ॥३१४॥
क्यस्येय्यः ॥ ८।४।३१५ ॥ पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो भवति ॥ गिय्यते । दिय्यते । रमिय्यते । पठिय्यते ॥ . [क्यस्येय्यः ] क्य षष्ठी ङस् । इय्य प्रथमा सि ।