________________
५३०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
हृदये यस्य पः ॥ ८।४।३१० ॥ पैशाच्यां हृदयशब्दे यस्य पो भवति || हितपकं । किं पि किं पि हितपके अत्थं चिन्तयमानी ॥ [ हृदये यस्य पः ] हृदय सप्तमी ङि । य षष्ठी ङस् । प प्रथमा सि ।
[हितपकं ] हृदय । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । 'इत्कृपादौ' (१।१२८) ह० → हि० । 'त-दोस्त:' (४/३०७) द०→ त० । अनेन य० → प० हितपकं ।
[कि पि किं पि हितपके अत्थं चिन्तयमानी] किम्-अपि । 'पदादपेर्वा' (१।४१) अलुक् किं पि कि पि ।
हितपक पूर्ववत् । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् हितपके।
अर्थ । द्वितीया अम् । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं-थ० → थ्थ० । 'द्वितीयतुर्ययो०' (२९०) पूर्वथस्य तः । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१९२३) अनुस्वारः अत्थं ।
"चितुण् स्मृत्याम्' (१६४५) चित् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । 'चुरादि०' (३।४।१७) णिच्प्र० । चिन्तयतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत्० । 'शत्रानशः' (३।१८१) अत्० → माण० आदेशः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) गुणः । क्वचिदेकपदेऽपि सन्धिस्तेन एकारस्य अय् । 'लोकात्' (१।१।३) चिन्तयमाण । 'णो नः' (४।३०६) ण० → न० । 'अजातेः पुंसः' (३।३२) ङीप्र० चिन्तयमानी ॥३१०॥
टोस्तुर्वा ॥ ८।४।३११ ॥ पैशाच्यां टोः स्थाने तुर्वा भवति ॥ कुतुम्बकं । कुटुम्बकं ॥ [टोस्तुर्वा ] टु षष्ठी ङस् । तु प्रथमा सि । वा प्रथमा सि ।
[कुतुम्बकं कुटुम्बकं ] कुटुम्ब । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । अनेन टु० → तु० । पक्षे- यथास्थिति कुतुम्बकं कुटुम्बकं ॥३११॥
क्त्वस्तूनः ॥८।४।३१२ ॥ पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गंतून । रंतून । हसितून । पठितून । कधितून ॥ [क्त्वस्तूनः ] क्त्वा षष्ठी ङस् । तून प्रथमा सि । [गंतून ] 'गम्लुं गतौ' (३९६) गम् । क्त्वाप्र० । अनेन क्त्वा० → तून० । 'मोऽनु०' (१।२३) अनुस्वारः गंतून । [रंतून ] 'रमि क्रीडायाम्' (९८९) रम् । क्त्वाप्र० । अनेन क्त्वा० → तून० । 'मोऽनु०' (१।२३) अनुस्वारः रंतून ।
[हसितून] 'हसे हसने' (५४५) हस् । क्त्वाप्र० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१२३) हस-क्त्वा । 'एच्च क्त्वा-तुम्०' (३६१५७) स० → सि० । अनेन क्त्वा० → तून० हसितून ।
[पठितून ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । अनेन क्त्वाप्र० । 'व्यञ्जनाददन्ते' (४।२३९) अत । 'लोकात' (१।१।३) पठ-क्त्वा । “एच्च क्त्वा-तुम्०' (३।१५७) ठ० → ठि० । अनेन क्त्वा० → तून० पठितून ।