________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५२९
[तामोतरो] दामोदर । प्रथमा सि । अनेन दा० → ता०- द० → त० । 'अत: से?:' (३२) सि० → डो० → ओ० तामोतरो।
[पतेसो] प्रदेश । प्रथमा सि । ' सर्वत्र ल-व०' (२२७९) लुक् । अनेन द० → त० । 'श-षोः सः' (४।३०९) श० → स० । 'अत: से?:' (३।२) सि० → डो० → ओ० पतेसो ।
[वतनकं] वदनकम् । अनेन द० → त० वतनकं ।
[होतु] 'भू सत्तायाम्' (१) भू । पञ्चमी तुव् । 'भुवेर्हो हुव-हवाः' (४।६०) भू० → हो० । 'दु-सु-मु०' (३।१७३) तु० → दु० । अनेन दु० → तु. होतु ।
_ [रमतु] 'रमिं क्रीडायाम्' (९८९) रम् । पञ्चमी ताम् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) रमताम् । 'दु-सु-मु०' (३।१७३) ताम्० → दु० । अनेन दु० → तु० रमतु ।
[पताका] पताका । अनेन तस्य तः पताका । तकारकरणात् 'प्रत्यादौ डः' (१२२०६) इति डकारप्राप्तो निषेधः । [वेतिसो] वेतस । अनेन तस्य तः । 'इ: स्वप्नादौ' (१२४६) त० → ति० वेतिसो ॥३०७॥
लो लः ॥ ८।४।३०८ ॥ पैशाच्यां लकारस्य लकारो भवति ॥ सीलं । कुलं । जलं । सलिलं । कमलं ॥
[लो लः] ल षष्ठी ङस् । ल प्रथमा सि ॥३०८॥
श-षोः सः ॥ ८।४।३०९ ॥ पैशाच्यां श-षोः सो भवति ॥
श- सोभति । सोभनं । ससी । सक्को । सङ्गो ॥ ष- विसमो । विसानो ।
'न क-ग-च-जादि-षट्-शम्यन्तसूत्रोक्तम्' (४।३२४) इत्यस्य बाधकस्य बाधनार्थोऽयं योगः ॥
[श-षोः सः] श-ष षष्ठी ओस् । स प्रथमा सि ।
[सोभति] 'शुभत् शोभार्थे' (१३८७) शुभ् । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इच्० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) शुभइ । 'युवर्णस्य गुणः' (४।२३७) शु० → शो० । अनेन शो० → सो० । 'आत्तेश्च' (४।३१९) इच्० → ति० सोभति ।
[ सोभनं ] शोभनम् । अनेन शो० → सो० सोभनं । [ससी] शशी । अनेन ससी । [सक्को ] शक्र । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (१।११) द्वित्वं-क० → क० । अनेन श० → स० सक्को। [सङ्खो] शङ्ख । अनेन श० → स० सङ्खो । [विसमो] विषम । अनेन ष० → स० विसमो । [विसानो] विषाण । अनेन षा० → सा० । 'णो नः' (४।३०६) ण → न० विसानो ॥३०९॥