________________
५२८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
न्य-योजः ॥८।४।३०५ ॥ पैशाच्यां न्य-ण्योः स्थाने जो भवति ॥ कञका । अभिमजू । पुज-कम्मो । पुजाहं ॥ [न्य-ण्योजः ] न्य-ण्य षष्ठी ओस् । ञ प्रथमा सि । [कञका] कन्यका । अनेन न्य० → ० कञका । [अभिमजू] अभिमन्यु । अनेन न्यु० → चु० अभिमञ्जू ।
[पुञ्ज-कम्मे ] पुण्य-कर्मा । अनेन ण्य० → ञ० । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२८९) द्वित्वं-मा० → म्मा० । वाऽऽप ए' (३।४१) म्मा० → म्मे० पुञ-कम्मे । [पुञआहं] पुण्याहम् । अनेन ण्या० → ञा० पुञाहं ॥३०५।।
णो नः ॥ ८।४।३०६ ॥ पैशाच्यां णकारस्य नो भवति ॥ गुन-गन-युत्तो । गुनेन । [णो नः] ण् षष्ठी ङस् । न प्रथमा सि ।
[गुन-गन-युत्तो] गुण-गण-युक्त । प्रथमा सि । अनेन ण. → न० । 'क-ग-ट-ड०' (२७७) क्लु क् । 'अनादौ०' (२१८९) द्वित्वं-त० → त्त० । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० गुन-गन-युत्तो ।
[गुनेन] गुण । तृतीया टा । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) ण० → णे० । अनेन णे० → ने० - ण० → न० गुनेन ॥३०६।।
त-दोस्तः ॥ ८।४।३०७ ॥ पैशाच्यां तकार-दकारयोस्तो भवति ।
तस्य - भगवती । पव्वती । सतं ॥ दस्य - मतन-परवसो । सतनं । तामोतरो । पत्तेसो । वतनकं । होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् - तेन पताका । वेतिसो इत्याद्यपि सिद्धं भवति ॥
[त-दोस्त: ] त-द् षष्ठी ओस् । त प्रथमा सि । [भगवती] भगवती । अनेन तस्य तः - भगवती ।
[पव्वती ] पार्वती । 'हुस्वः संयोगे' (१८४) पा० → प० । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं- व० → व्व० । अनेन तस्य तः - पव्वती ।
[सतं] शत । प्रथमा सि । 'श-षोः सः' (४।३०९) श० → स० । अनेन तस्य तः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सतं ।
[मतन-परवसो] मदन-परवश । प्रथमा सि । अनेन द० → त० । 'श-षोः सः' (४।३०९) श० → स० । 'अतः से?:' (३।२) सि० → डो० → ओ० मतन-परवसो ।
[सतनं] सदनम् । अनेन द० → त० सतनं ।